-
Notifications
You must be signed in to change notification settings - Fork 37
Expand file tree
/
Copy pathatharvaveda_kaanda_11.json
More file actions
72 lines (72 loc) · 114 KB
/
atharvaveda_kaanda_11.json
File metadata and controls
72 lines (72 loc) · 114 KB
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
[
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 1,
"text": "ब्रह्मौदनम्।\n१-३७ ब्रह्म। ओदनः। त्रिष्टुप्, १ अनुष्टुब्गर्भा, भुरिक्पङ्क्तिः, २ बृहतीगर्भा विराट्, ३ चतुष्पदा शाक्वरगर्भा जगती, ४, १५-१६ भुरिक्, ५ बृहतीगर्भा विराट्, ६ उष्णिक्, ८ विराड् गायत्री, ९ शाक्वरातिजागतगर्भा जगती, १० विराट् पुरोतिजगती विराड् जगती, ११ जगती, १७, २१, २४-२६, २९ (भुरिक्), ३७ विराड् जगती, १८ अतिजागतगर्भा परातिजागता विराडतिजगती, २० अतिजागतगर्भा परा शाक्वरा चतुष्पदा भुरिग्जगती,\n२७ अतिजागतगर्भा जगती, ३१ भुरिक्, ३५ चतुष्पदा ककुम्मत्युष्णिक्, ३६ पुरोविराड् (व्याघ्रादिष्ववगन्तव्या)।\nअग्ने॒ जाय॒स्वादि॑तिर्नाथि॒तेयं ब्र॑ह्मौद॒नं प॑चति पु॒त्रका॑मा ।\nस॒प्त॒ऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑ मन्थन्तु प्र॒जया॑ स॒हे॑ह ॥१॥\nकृ॒णु॒त धू॒मं वृ॑षणः सखा॒योऽद्रो॑घाविता॒ वाच॒मच्छ॑ ।\nअ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॑ येन॑ दे॒वा अस॑हन्त॒ दस्यू॑न्॥२॥\nअग्नेऽज॑निष्ठा मह॒ते वी॒र्याऽय ब्रह्मौद॒नाय॒ पक्त॑वे जातवेदः ।\nस॒प्त॒ऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑जीजनन्न॒स्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ॥३॥\nसमि॑द्धो अग्ने स॒मिधा॒ समि॑ध्यस्व वि॒द्वान् दे॒वान् य॒ज्ञियाँ॒ एह व॑क्षः ।\nतेभ्यो॑ ह॒विः श्र॒पयं॑ जातवेद उत्त॒मं नाक॒मधि॑ रोहये॒मम्॥४॥\nत्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम्।\nअंशा॑न् जानीध्वं॒ वि भ॑जामि॒ तान् वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ॥५॥\nअग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्युऽब्ज द्विष॒तः स॒पत्ना॑न्।\nइ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ॥६॥\nसा॒कं स॑जा॒तैः पय॑सा स॒हैध्युदु॑ब्जैनां मह॒ते वी॒र्याऽय ।\nऊ॒र्ध्वो नाक॒स्याधि॑ रोह वि॒ष्टपं॑ स्व॒र्गो लो॒क इति॒ यं वद॑न्ति ॥७॥\nइ॒यं म॒ही प्रति॑ गृह्णातु॒ चर्म॑ पृथि॒वी दे॒वी सु॑मन॒स्यमा॑ना ।\nअथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम्॥८॥\nए॒तौ ग्रावा॑णौ स॒युजा॑ युङ्ग्धि॒ चर्म॑णि॒ निर्भि॑न्ध्यं॒शून् यज॑मानाय सा॒धु।\nअ॒व॒घ्न॒ती नि ज॑हि॒ य इ॒मां पृ॑त॒न्यव॑ ऊ॒र्ध्वं प्र॒जामु॒द्भर॒न्त्युदू॑ह ॥९॥\nगृ॒हा॒ण ग्रावा॑णौ स॒कृतौ॑ वीर॒ हस्त॒ आ ते॑ दे॒वा य॒ज्ञिया॑ य॒ज्ञम॑गुः ।\nत्रयो॒ वरा॑ यत॒मांस्त्वं वृ॑णी॒षे तास्ते॒ समृ॑द्धीरि॒ह रा॑धयामि ॥१०॥॥\nइ॒यं ते॑ धी॒तिरि॒दमु॑ ते ज॒नित्रं॑ गृ॒ह्णातु॒ त्वामदि॑तिः॒ शूर॑पुत्रा ।\nपरा॑ पुनीहि॒ य इ॒मां पृ॑त॒न्यवो॒ऽस्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ॥११॥॥\nउ॒प॒श्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑ ।\nश्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥१२॥\nपरे॑हि नारि॒ पुन॑रेहि॑ क्षि॒प्रम॒पां त्वा॑ गो॒ष्ठोऽध्य॑रुक्ष॒द् भरा॑य ।\nतासां॑ गृह्णीताद् यत॒मा य॒ज्ञिया॒ अस॑न् वि॒भाज्य॑ धी॒रीत॑रा जहीतात्॥१३॥\nएमा अ॑गुर्यो॒षितः॒ शुम्भ॑माना॒ उत्ति॑ष्ठ नारि त॒वसं॑ रभस्व ।\nसु॒पत्नी॒ पत्या॑ प्र॒जया॑ प्र॒जाव॒त्या त्वा॑गन् यज्ञः प्रति॑ कु॒म्भं गृ॑भाय ॥१४॥\nऊ॒र्जो भा॒गो निहि॑तो॒ यः पु॒रा व॒ ऋषि॑प्रशिष्टा॒प आ भ॑रै॒ताः ।\nअ॒यं य॒जो गा॑तु॒विन्ना॑थ॒वित् प्र॑जा॒विदु॒ग्रः प॑शु॒विद् वी॑र॒विद् वो॑ अस्तु ॥१५॥\nअग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्।\nआ॒र्षे॒या दै॒वा अ॑भिसं॒गत्य॒ भा॒गमि॒मं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ॥१६॥\nशु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः ।\nअदुः॑ प्र॒जां ब॑हु॒लान् प॒शून् नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम्॥१७॥\nब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॑ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इ॒मे।\nअ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम्॥१८॥\nउ॒रुः प्र॑थस्व मह॒ता म॑हि॒म्ना स॒हस्र॑पृष्ठः सुकृ॒तस्य॑ लो॒के।\nपि॒ता॒म॒हाः पि॒तरः॑ प्र॒जोप॒जाहं प॒क्ता प॑ञ्चद॒शस्ते॑ अस्मि ॥१९॥\nस॒हस्र॑पृष्ठः श॒तधा॑रो॒ अक्षि॑तो ब्रह्मौद॒नो दे॑व॒यानः॑ स्व॒र्गः ।\nअ॒मूंस्त॒ आ द॑धामि प्र॒जया॑ रेषयैनान् बलिहा॒राय॑ मृडता॒न्मह्य॑मे॒व॥२०॥॥\nउ॒देहि॒ वेदिं॑ प्र॒जया॑ वर्धयैनां नु॒दस्व॒ रक्षः॑ प्रत॒रं धे॑ह्येनाम्।\nश्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥२१॥॥\nअ॒भ्याव॑र्तस्व प॒शुभिः॑ स॒हैनां॑ प्र॒त्यङे॑नां दे॒वता॑भिः स॒हैधि॑ ।\nमा त्वा॒ प्राप॑च्छ॒पथो॒ माभि॑चा॒रः स्वे क्षेत्रे॑ अनमी॒वा वि रा॑ज ॥२२॥॥\nऋ॒तेन॑ त॒ष्टा मन॑सा हि॒तैषा ब्र॑ह्मौद॒नस्य॒ विहि॑ता॒ वेदि॒रग्रे॑ ।\nअं॒स॒द्रीं शु॒द्धामुप॑ धेहि नारि॒ तत्रौ॑द॒नं सा॑दय दै॒वाना॑म्॥२३॥\nअदि॑ते॒र्हस्तां॒ स्रुच॑मे॒तां द्वि॒तीयां॑ सप्तऋ॒षयो॑ भूत॒कृतो॒ यामकृ॑ण्वन्।\nसा गात्रा॑णि वि॒दुष्यो॑द॒नस्य॒ दर्वि॒र्वेद्या॒मध्ये॑नं चिनोतु ॥२४॥\nशृ॒तं त्वा॑ ह॒व्यमुप॑ सीदन्तु दै॒वा निः॒सृप्या॒ग्नेः पुन॑रेना॒न् प्र सी॑द ।\nसोमे॑न पू॒तो ज॒ठरे॑ सीद ब्र॒ह्म॑णामार्षे॒यास्ते॒ मा रि॑षन् प्राशि॒तारः॑ ॥२५॥\nसोम॑ राजन्त्सं॒ज्ञान॒मा व॑पैभ्यः॒ सुब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्।\nऋषी॑नार्षे॒यांस्तप॒सोऽधि॑ जा॒तान् ब्र॑ह्मौद॒ने सु॒हवा॑ जोहवीमि ॥२६॥\nशु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि ।\nयत् का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दादि॒दं मे॑ ॥२७॥\nइ॒दं मे॒ ज्योति॑र॒मृतं॒ हिर॑ण्यं प॒क्वं क्षेत्रा॑त् काम॒दुघा॑ म ए॒षा।\nइ॒दं ध॒नं नि द॑धे ब्राह्म॒णेषु॑ कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ॥२८॥\nअ॒ग्नौ तुषा॒ना व॑प जा॒तवे॑दसि प॒रः क॒म्बूकाँ॒ अप॑ मृड्ढि दू॒रम्।\nए॒तं शु॑श्रुम गृहरा॒जस्य॑ भा॒गमथो॑ विद्म॒ निरृ॑तेर्भाग॒धेय॑म्॥२९॥\nश्राम्य॑तः॒ पच॑तो विद्धि सुन्व॒तः पन्थां॑ स्व॒र्गमधि॑ रोहयैनम्।\nयेन॒ रोहा॒त् पर॑मा॒पद्य॒ यद् वय॑ उत्त॒मं नाकं॑ पर॒मं व्योऽम ॥३०॥॥\nब॒भ्रेर॑ध्वर्यो॒ मुख॑मे॒तद् वि मृ॒ड्ढ्याज्या॑य लो॒कं कृ॑णुहि प्रवि॒द्वान्।\nघृ॒तेन॒ गात्रानु॒ सर्वा॒ वि मृ॑ड्ढि कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ॥३१॥॥\nबभ्रे॒ रक्षः॑ स॒मद॒मा व॑पै॒भ्योऽब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्।\nपु॒री॒षिणः॒ प्रथ॑मानाः पु॒रस्ता॑दार्षे॒यास्ते॒ मा रि॑षन् प्राशि॒तारः॑ ॥३२॥॥\nआ॒र्षे॒येषु॒ नि द॑ध ओदन त्वा॒ नाना॑र्षेयाणा॒मप्य॒स्त्यत्र॑ ।\nअ॒ग्निर्मे॑ गो॒प्ता म॒रुत॑श्च॒ सर्वे॒ विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒क्वम्॥३३॥॥\nय॒ज्ञं दुहा॑नं॒ सद॒मित् प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्।\nप्र॒जा॒मृ॒त॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥३४॥\nवृ॒ष॒भोऽसि स्व॒र्ग ऋषी॑नार्षे॒यान् ग॑च्छ ।\nसु॒कृतां॑ लो॒के सी॑द॒ तत्र॑ नौ संस्कृ॒तम्॥३५॥\nस॒माचि॑नुष्वानुस॒म्प्रया॑ह्यग्ने प॒थः क॑ल्पय देव॒याना॑न्।\nए॒तैः सु॑कृ॒तैरनु॑ गच्छेम य॒ज्ञं नाके॒ तिष्ठ॑न्त॒मधि॑ स॒प्तर॑श्मौ ॥३६॥\nयेन॑ दे॒वा ज्योति॑षा॒ द्यामु॒दाय॑न् ब्रह्मौद॒नं प॒क्त्वा सु॑कृ॒तस्य॑ लो॒कम्।\nतेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्वऽरा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम्॥३७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 2,
"text": "रुद्रः।\n१-३१ अथर्वा। भव-शर्व रुद्राः। त्रिष्टुप्, १ परातिजागता विराड्जगती, २ अनुष्टुब्गर्भा पञ्चपदा पथ्याजगती, ३ चतुष्पदा स्वराडुष्णिक्, ४-५, ७, १३, १५-१६, २१ अनुष्टुप्, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरोकृती त्रिपदा विराट्, ११ पञ्पदा विराड् जगतीगर्भा शक्वरी, १२ भुरिक्, १४, १७-१९, २३, २६-२७ विराड्गायत्री, २० भुरिग्गायत्री, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २४, २९ जगती, २५ पञ्पदातिशक्वरी, ३० चतुष्पदा उष्णिक्,३१ त्र्यवसाना विपरीतपाद लक्ष्मा षट् पदा (जगती)।\nभवा॑शर्वौ मृ॒डतं॒ माभि या॑तं॒ भूत॑पती॒ पशु॑पती॒ नमो॑ वाम्।\nप्रति॑हिता॒माय॑तां॒ मा वि स्रा॑ष्टं॒ मा नो॑ हिंसिष्टं द्वि॒पदो॒ मा चतु॑ष्पदः ॥१॥\nशुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑म॒लिक्ल॑वेभ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑ ।\nमक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ॥२॥\nक्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः ।\nनम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥३॥\nपु॒रस्ता॑त् ते नमः॑ कृण्म उत्त॒राद॑ध॒रादु॒त।\nअ॒भी॒व॒र्गाद् दि॒वस्पर्य॒न्तरि॑क्षाय ते॒ नमः॑ ॥४॥\nमुखा॑य ते पशुपते॒ यानि॒ चक्षूं॑षि ते भव ।\nत्व॒चे रू॒पाय॑ सं॒दृशे॑ प्रती॒चीना॑य ते॒ नमः॑ ॥५॥\nअङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्याऽय ते ।\nद॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥६॥\nअस्त्रा॒ नील॑शिखण्डेन सहस्रा॒क्षेण॑ वा॒जिना॑ ।\nरु॒द्रेणा॑र्धकघा॒तिना॒ तेन॒ मा सम॑रामहि ॥७॥\nस नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः ।\nमा नो॒ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ॥८॥\nच॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते ।\nतवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः ॥९॥\nतव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्व॑१न्तरि॑क्षम्।\nतवे॒दं सर्व॑मात्म॒न्वद् यत् प्रा॒णत् पृ॑थि॒वीमनु॑ ॥१०॥\nउ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः ।\nस नो॑ मृड पशुपते॒ नम॑स्ते प॒रः क्रो॒ष्टारो॑ अभि॒भाः श्वानः॑ प॒रो य॑न्त्वघ॒रुदो॑ विके॒श्यःऽ॥ ११॥\nधनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिनम्।\nरु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒३तः ॥१२॥\nयो॒३भिया॑तो नि॒लय॑ते॒ त्वां रु॑द्र नि॒चिकी॑र्षति ।\nप॒श्चाद॑नु॒प्रयु॑ङ्क्षे॒ तं वि॒द्धस्य॑ पद॒नीरि॑व ॥१३॥\nभ॒वा॒रु॒द्रौ स॒युजा॑ संविदा॒नावु॒भावु॒ग्रौ च॑रतो वी॒र्याऽय ।\nतभ्यां॒ नमो॑ यत॒मस्यां॑ दिशी३तः ॥१४॥\nनम॑स्ते ऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते।\nनम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥१५॥\nनमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑ ।\nभ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥१६॥\nस॒ह॒स्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द् रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म्।\nमोपा॑राम जि॒ह्वयेय॑मानम्॥१७॥\nश्या॒वाश्वं॑ कृ॒ष्णमसि॑तं मृ॒णन्तं॑ भी॒मं रथं॑ के॒शिनः॑ पा॒दय॑न्तम्।\nपूर्वे॒ प्रती॑मो॒ नमो॑ अस्त्वस्मै ॥१८॥\nमा नो॒ऽभि स्रा॑ म॒त्यं देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते ।\nअ॒न्यत्रा॒स्मद् दि॒व्यां शाखां॒ वि धू॑नु ॥१९॥\nमा नो॑ हिंसी॒रधि॑ नो ब्रूहि॒ परि॑ णो वृङ्ग्धि॒ मा क्रु॑धः ।\nमा त्वया॒ सम॑रामहि ॥२०॥\nमा नो॒ गोषु॒ पुरु॑षेषु॒ मा गृ॑धो नो अजा॒विषु॑ ।\nअ॒न्यत्रो॑ग्र॒ वि व॑र्तय॒ पिया॑रूणां प्र॒जां ज॑हि ॥२१॥\nयस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑ ।\nअ॒भि॒पू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥२२॥\nयो॒३न्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तोऽय॑ज्वनः प्रमृ॒णन् दे॑वपी॒यून्।\nतस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥२३॥\nतुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि ।\nतव॑ य॒क्षं प॑शुपते अ॒प्स्व॑१न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे॥२४॥\nशि॒शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि ।\nन ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न् परि॑\nपश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे॥२५॥\nमा नो॑ रुद्र त॒क्मना॒ मा वि॒षेण॒ मा नः॒ सं स्रा॑ दि॒व्येना॒ग्निना॑ ।\nअ॒न्यत्रा॒स्मद् वि॒द्युतं॑ पातयै॒ताम्॥२६॥\nभ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्व॑न्तरि॑क्षम्।\nतस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒३तः ॥२७॥\nभव॑ राज॒न् यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑ ।\nयः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ऽस्य मृड ॥२८॥\nमा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः ।\nमा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वंऽ रुद्र॒ मा री॑रिषो नः ॥२९॥\nरु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑ ।\nइ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥३०॥\nनम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः ।\nनमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑ ।\nनम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥३१॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 3,
"text": "ओदनः।\n(१)\n१-३१ अथर्वा। ओदनः (बार्हस्पत्यौदनः।) ( त्रयः पर्याया)। १, १४ आसुरी गायत्री, २ त्रिपदा समविषमा गायत्री, ३, ६, १० आसुरी पङ्क्तिः, ४, ८ साम्न्यनुष्टुप्, ५, १३, १५, २५ साम्न्युष्णिक्, ७, १९-२२ प्राजापत्याऽनुष्टुप्, ९, १७-१८ आसुर्यनुष्टुप्, ११ भुरिगार्च्नुष्टुप्, १२ याजुषी जगती, १६ २३ आसुरी बृहती, २४ त्रिपदा प्राजापत्या बृहती, २६ आर्च्युष्णिक्, २७-२९ साम्नी बृहती, (२८-२९ भुरिक्), ३० याजुषी त्रिष्टुप्, ३१ अल्पशः पङ्क्तिरुत याजुषी।\nतस्यौ॑द॒नस्य॒ बृहस्पतिः॒ शिरो॒ ब्रह्म॒ मुख॑म् ॥१॥\nद्यावा॑पृथि॒वी श्रोत्रे॑ सूर्याचन्द्र॒मसा॒वक्षि॑णी सप्तऋ॒षयः॑ प्राणापा॒नाः ॥२॥\nचक्षु॒र्मुस॑लं॒ काम॑ उ॒लूख॑लम् ॥३॥\nदितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक्॥४॥\nअश्वाः॒ कणा॒ गाव॑स्तण्डु॒ला म॒शका॒स्तुषाः॑ ॥५॥\nकब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम्॥६॥\nश्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम्॥७॥\nत्रपु॒ भस्म॒ हरि॑तं॒ वर्णः॒ पुष्क॑रमस्य ग॒न्धः ॥८॥\nखलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्येऽ ॥९॥\nआ॒न्त्राणि॑ ज॒त्रवो॒ गुदा॑ वर॒त्राः ॥१०॥\nइ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म् ॥११॥\nसीताः॒ पर्श॑वः॒ सिक॑ता॒ ऊब॑ध्यम् ॥१२॥\nऋ॒तं ह॑स्ताव॒नेज॑नं कु॒ल्योऽप॒सेच॑नम् ॥१३॥\nऋ॒चा कु॒म्भ्यधि॑हि॒तार्त्विज्येन॒ प्रेषि॑ता ॥१४॥\nब्रह्म॑णा॒ परि॑गृहीता॒ साम्ना॒ पर्यू॑ढा ॥१५॥\nबृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑ ॥१६॥\nऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ॥१७॥\nच॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒३भी॑न्धे ॥१८॥\nओ॒द॒नेन॑ यज्ञव॒चः सर्वे॑ लो॒काः स॑मा॒प्याः ॥१९॥\nयस्मि॑न्त्समु॒द्रो द्यौर्भूमि॒स्त्रयो॑ऽवरप॒रं श्रि॒ताः ॥२०॥\nयस्य॑ दे॒वा अक॑ल्प॒न्तोच्छि॑ष्टे॒ षड॑शी॒तयः॑ ॥२१॥\nतं त्वौ॑द॒नस्य॑ पृच्छामि॒ यो अ॑स्य महि॒मा म॒हान् ॥२२॥\nस य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥२३॥\nनाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑ ॥२४॥\nयाव॑द् दा॒ताभि॑मन॒स्येत॒ तन्नाति॑ वदेत् ॥२५॥\nब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ परा॑ञ्चमोद॒नं प्राशीः३ प्र॒त्यञ्चा३मिति॑ ॥२६॥\nत्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑ ॥२७॥\nपरा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥२८॥\nप्र॒त्यञ्चं॑ चैनं॒ प्राशी॑रपा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥२९॥\nनैवाहमो॑द॒नं न मामो॑द॒नः ॥३०॥\nओ॒द॒न ए॒वौद॒नं प्राशी॑त् ॥३१॥\n(२)\n३२-४९ मन्त्रोक्ताः। ३२, ३८, ४१ (प्रथमा), ३२-४९ (सप्तमी) साम्नी त्रिष्टुप्, ३२, ३५,४२ (द्वितीया), ३२-४९ (तृतीया) ३३-३४, ४४-४८ (पञ्चमी) एकपदाऽऽसुरी गायत्री, ३२, ४१, ४३, ४७ दैवी जगती, ३८, ४४, ४६ (द्विo), ३२, ३५-४३, ४९ (पञ्चo) एकपदाऽऽसुर्यनुष्टुप्, ३२-४९ (षष्ठी) साम्न्यनुष्टुप्, ३२-४९ (प्रo) आर्च्यनुष्टुप्, ३७ (प्रo) साम्नी पङ्क्तिः, ३३, ३६, ४०, ४७-४८ (द्विo) आसुरी जगती, ३४, ३७, ४१, ४३, ४५ (द्विo) आसुरी पङ्क्तिः, ३४ (चo) आसुरी त्रिष्टुप्, ३५, ४६, ४८ (चo) याजुषी गायत्री, ३६-३७, ४० (चo) दैवी पङ्क्तिः ३८-३९ (चo) प्राजापत्या गायत्री, ३९ (द्विo) आसुर्युष्णिक्, ४२, ४५, ४९ (चo) दैवी त्रिष्टुप्, ४९ (द्विo) एकपदा भुरिक्साम्नी बृहती।\nतत॑श्चैनम॒न्येन॑ शी॒र्ष्णा प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nज्ये॒ष्ठ॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॑ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nबृह॒स्पति॑ना शी॒र्ष्णा ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३२॥\nतत॑श्चैनम॒न्याभ्यां॒ श्रोत्रा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nब॒धि॒रो भ॑विष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nद्यावा॑पृथि॒वीभ्यां॒ श्रोत्रा॑भ्याम् ॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३३॥\nतत॑श्चैनम॒न्याभ्या॑म॒क्षीभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nअ॒न्धो भ॑वि॒ष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nसू॒र्या॒च॒न्द्र॒म॒साभ्या॑म॒क्षीभ्या॑म्॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्वपरुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३४॥\nतत॑श्चैनम॒न्येन॒ मुखे॑न॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nमु॒ख॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nब्रह्म॑णा॒ मुखे॑न ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३५॥\nतत॑श्चैनम॒न्यया॑ जि॒ह्वया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nजि॒ह्वा ते॑ मरिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nअ॒ग्नेर्जि॒ह्वया॑ ॥४॥\nतयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३६॥\nतत॑श्चैनम॒न्यैर्दन्तैः॒ प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nदन्ता॑स्ते शत्स्य॒न्तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nऋ॒तुभि॒र्दन्तैः॑ ॥४॥\nतैरे॑नं॒ प्राशि॑षं॒ तैरे॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३७॥\nतत॑श्चैनम॒न्यैः प्रा॑णापा॒नैः प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nप्रा॒णा॒पा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nस॒प्त॒ऋषिभिः॑ प्राणापा॒नैः ॥४॥\nतैरे॑नं॒ प्राशि॑षं॒ तैरे॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३८॥\nतत॑श्चैनम॒न्येन॒ व्यच॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nरा॒ज॒य॒क्ष्मस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nअ॒न्तरि॑क्षेण॒ व्यच॑सा ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ३९॥\nतत॑श्चैनम॒न्येन॑ पृ॒ष्ठेन॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nवि॒द्युत् त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nदि॒वा पृ॒ष्ठेन॑ ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४०॥\nतत॑श्चैनम॒न्येनोर॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nकृ॒ष्या न रा॑त्स्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nपृ॒थि॒व्योर॑सा ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४१॥\nतत॑श्चैनम॒न्येनो॒दरे॑ण॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nउ॒द॒र॒दा॒रस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nस॒त्येनो॒दरे॑ण ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४२॥\nतत॑श्चैनम॒न्येन॑ व॒स्तिना॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nअ॒प्सु म॑रिष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nस॒मु॒द्रेण॑ व॒स्तिना॑ ॥४॥\nतेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४३॥\nतत॑श्चैनम॒न्याभ्या॑मू॒रुभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nऊ॒रू ते॑ मरिष्यत॒ इत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nमि॒त्राव॑रुणयोरू॒रुभ्या॑म् ॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४४॥\nतत॑श्चैनम॒न्याभ्या॑मष्ठी॒वद्भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nस्रा॒मो भ॑विष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nत्वष्टु॑रष्ठी॒वद्भ्या॑म् ॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७ ॥४५॥\nतत॑श्चैनम॒न्याभ्यां॒ पादा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nब॒हुचा॒री भ॑विष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nअ॒श्विनोः॒ पादा॑भ्याम् ॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४६॥\nतत॑श्चैनम॒न्याभ्यां॒ प्रप॑दाभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nस॒र्पस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nस॒वि॒तुः प्रप॑दाभ्याम् ॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४७॥\nतत॑श्चैनम॒न्याभ्यां॒ हस्ता॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nब्रा॒ह्म॒णं ह॑निष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nऋ॒तस्य॒ हस्ता॑भ्याम् ॥४॥\nताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४८॥\nतत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥१॥\nअ॒प्र॒ति॒ष्ठा॒नोऽनायत॒नो म॑रिष्य॒सीत्ये॑नमाह ॥२॥\nतं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥३॥\nस॒त्ये प्र॑ति॒ष्ठाय॑ ॥४॥\nतयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम् ॥५॥\nए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥६॥\nसर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥७॥ ४९॥\n(३)\n५०-५६ मन्त्रोक्ताः। ५० आसुर्यनुष्टुप्, ५१ आर्च्युष्णिक्, ५२ त्रिपदा भुरिक्साम्नी त्रिष्टुप्, ५३ आसुरी बृहती, ५४ द्विपदा भुरिक्साम्नी बृहती, ५५ साम्न्युष्णिक्, ५६ प्राजापत्या बृहती।\nए॒तद् वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः ॥५०॥\nब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ ॥५१॥\nए॒तस्मा॒द् वा ओ॑द॒नात् त्रय॑स्त्रिंशतं लो॒कान् निर॑मिमीत प्र॒जाप॑तिः ॥५२॥\nतेषां॑ प्र॒ज्ञाना॑य य॒ज्ञम॑सृजत ॥५३॥\nस य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भ॑वति प्रा॒णं रु॑णद्धि ॥५४॥\nन च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते ॥५५॥\nन च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ॥५६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 4,
"text": "प्राणः।\n१-२६ भार्गवो वैदर्भिः। प्राणः। अनुष्टुप्, १ शङ्कुमती, ८ पथ्यापङ्क्तिः, १४ निचृत्, १५ भुरिक्,\n२० अनुष्टुगर्भा त्रिष्टुप्, २१ मध्येज्योतिर्जगती, २२ त्रिष्टुप्, २६ बृहतीगर्भा।\nप्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑ ।\nयो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम्॥१॥\nनम॑स्ते प्राण॒ क्रन्दा॑य॒ नम॑स्ते स्तनयि॒त्नवे॑ ।\nनम॑स्ते प्राण वि॒द्युते॒ नम॑स्ते प्राण॒ वर्ष॑ते ॥२॥\nयत् प्रा॒ण स्त॑नयि॒त्नुना॑भि॒क्रन्द॒त्योष॑धीः ।\nप्र वी॑यन्ते॒ गर्भा॑न् दध॒तेऽथो॑ ब॒ह्वीर्वि जा॑यन्ते ॥३॥\nयत् प्रा॒ण ऋ॒तावाग॑तेऽभि॒क्रन्द॒त्योष॑धीः ।\nसर्वं॑ त॒दा प्र मो॑दते॒ यत् किं च॒ भूम्या॒मधि॑ ॥४॥\nय॒दा प्रा॒णो अ॒भ्यव॑र्षीद् व॒र्षेण॑ पृथि॒वीं म॒हीम्।\nप॒शव॒स्तत् प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥५॥\nअ॒भिवृ॑ष्टा॒ ओष॑धयः प्रा॒णेन॒ सम॑वादिरन्।\nआयु॒र्वै नः॒ प्राती॑तरः॒ सर्वा॑ नः सुर॒भीर॑कः ॥६॥\nनम॑स्ते अस्त्वाय॒ते नमो॑ अस्तु पराय॒ते।\nनम॑स्ते प्राण॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥७॥\nनम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते।\nप॒रा॒चीना॑य ते॒ नमः॑ प्रती॒चीना॑य ते॒ नमः॑ सर्व॑स्मै त इ॒दं नमः॑ ॥८॥\nया ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी ।\nअथो॒ यद् भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ॥९॥\nप्रा॒णः प्र॒जा अनु॑ वस्ते पि॒ता पु॒त्रमि॑व प्रि॒यम्।\nप्रा॒णो ह॒ सर्व॑स्येश्व॒रो यच्च॑ प्रा॒णति॒ यच्च॒ न॥१०॥\nप्रा॒णो मृ॒त्युः प्रा॒णस्त॒क्मा प्रा॒णं दे॒वा उपा॑सते ।\nप्रा॒णो ह॒ सत्यवा॒दिन॑मुत्त॒मे लो॒क आ द॑धत्॥११॥\nप्रा॒णो वि॒राट् प्रा॒णो देष्ट्री॑ प्रा॒णं सर्व॒ उपा॑सते ।\nप्रा॒णो ह॒ सूर्य॑श्च॒न्द्रमाः॑ प्रा॒णमा॑हुः प्र॒जाप॑तिम्॥१२॥\nप्रा॒णा॒पा॒नौ व्री॑हिय॒वाव॑न॒ड्वान् प्रा॒ण उ॑च्यते ।\nयवे॑ ह प्रा॒ण आहि॑तोऽपा॒नो व्री॒हिरु॑च्यते ॥१३॥\nअपा॑नति॒ प्राण॑ति॒ पुरु॑षो॒ गर्भे॑ अन्त॒रा।\nय॒दा त्वं प्रा॑ण॒ जिन्व॒स्यथ॒ स जा॑यते॒ पुनः॑ ॥१४॥\nप्रा॒णमा॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते ।\nप्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॑ प्रति॑ष्ठितम्॥१५॥\nआ॒थ॒र्व॒णीरा॑ङ्गिर॒सीर्दैवी॑र्मनुष्य॒जा उ॒त।\nओष॑धयः॒ प्र जा॑यन्ते य॒दा त्वं प्रा॑ण॒ जिन्व॑सि ॥१६॥\nय॒दा प्रा॒णो अ॒भ्यव॑र्षीद् व॒र्षेण॑ पृथि॒वीं म॒हीम्।\nओष॑धयः॒ प्र जा॑य॒न्तेऽथो॒ याः काश्च॑ वी॒रुधः॑ ॥१७॥\nयस्ते॑ प्राणे॒दं वेद॒ यस्मिं॒श्चासि॒ प्रति॑ष्ठितः ।\nसर्वे॒ तस्मै॑ ब॒लिं ह॑रान॒मुष्मिंल्लो॒क उ॑त्त॒मे॥१८॥\nयथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः ।\nए॒वा तस्मै॑ ब॒लिं ह॑रा॒न् यस्त्वा॑ शृ॒णव॑त् सुश्रवः ॥१९॥\nअ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑ ।\nस भू॒तो भव्यं॑ भवि॒ष्यत् पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥२०॥\nएकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धंस उ॒च्चर॑न्।\nयद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॒न्न रात्री॒ नाहः॑ स्या॒न्न व्युऽछेत् क॒दा च॒न॥२१॥\nअ॒ष्टाच॑क्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा।\nअ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥२२॥\nयो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः ।\nअन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑ऽस्तु ते ॥२३॥\nयो अ॒स्य स॒र्वज॑न्मन॒ ईशे॒ सर्व॑स्य॒ चेष्ट॑तः ।\nअत॑न्द्रो॒ ब्रह्म॑णा॒ धीरः॑ प्रा॒णो मानु॑ तिष्ठातु ॥२४॥\nऊ॒र्ध्वः सु॒प्तेषु॑ जागार न॒नु ति॒र्यङ् नि प॑द्यते ।\nन सु॒प्तम॑स्य सु॒प्तेष्वनु॑ शुश्राव॒ कश्च॒न॥२५॥\nप्राण॒ मा म॑त् प॒र्यावृ॑तो॒ न मद॒न्यो भ॑विष्यसि ।\nअ॒पां गर्भ॑मिव जी॒वसे॒ प्राण॑ ब॒ध्नामि॑ त्वा॒ मयि॑ ॥२६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 5,
"text": "ब्रह्मचर्यम्।\n१-२६ ब्रह्मा।ब्रह्मचारी। त्रिष्टुप्, १ पुरोऽतिजागता विराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी,\n३ उरोबृहती, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड् गर्भा, ८ पुरोऽतिजागता विराड् जगती,\n९ बृहतीगर्भा, १० भुरिक्, ११, १३ जगती, १२ शाक्वरगर्भा चतुष्पदा विराडतिजगती, १५ पुरस्ताज्ज्योतिः,\n१४, १६-२२ अनुष्टुप्, २३ पुरोबार्हतातिजागतगर्भा, २५ एकावसानार्च्युष्णिक्, २६ मध्येज्योतिर ष्णिग्गर्भा।\nब्र॒ह्म॒चा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न् दे॒वाः संम॑नसो भवन्ति ।\nस दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं१ तप॑सा पिपर्ति ॥१॥\nब्र॒ह्म॒चा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग् दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑ ।\nग॒न्ध॒र्वा ए॑न॒मन्वा॑य॒न् त्रय॑स्त्रिंशत् त्रिश॒ताः ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ॥२॥\nआ॒चा॒र्यऽ उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः ।\nतं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ॥३॥\nइ॒यं स॒मित् पृ॑थि॒वी द्यौर्द्वितीयो॒तान्तरि॑क्षं स॒मिधा॑ पृणाति ।\nब्र॒ह्म॒चा॒री स॒मिधा॒ मेख॑लया॒ श्रमे॑ण लो॒कांस्तप॑सा पिपर्ति ॥४॥\nपूर्वो॑ जा॒तो ब्रह्म॑णो ब्रह्मचा॒री घ॒र्मं वसा॑न॒स्तप॒सोद॑तिष्ठत्।\nतस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम्॥५॥\nब्र॒ह्म॒चा॒र्येऽति स॒मिधा॒ समि॑द्धः कार्ष्णं॒ वसा॑नो दीक्षि॒तो दी॒र्घश्म॑श्रुः ।\nस स॒द्य ए॑ति॒ पूर्व॑स्मा॒दुत्त॑रं समु॒द्रं लो॒कान्त्सं॒गृभ्य॒ मुहु॑रा॒चरि॑क्रत्॥६॥\nब्र॒ह्म॒चा॒री ज॒नय॒न् ब्रह्मा॒पो लो॒कं प्र॒जाप॑तिं परमे॒ष्ठिनं॑ वि॒राज॑म्।\nगर्भो॑ भू॒त्वामृत॑स्य॒ योना॒विन्द्रो॑ ह भू॒त्वासु॑रांस्ततर्ह ॥७॥\nआ॒चा॒र्यऽ स्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च ।\nते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न् देवाः संम॑नसो भवन्ति ॥८॥\nइ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च ।\nते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥९॥\nअ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद् गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य ।\nतौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत् केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान्॥१०॥\nअ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रमे।\nतयोः॑ श्रयन्ते र॒श्मयोऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री॥११॥\nअ॒भि॒क्रन्द॑न् स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार ।\nब्र॒ह्म॒चा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥१२॥\nअ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न् ब्रह्मचा॒र्य॑१प्सु स॒मिध॒मा द॑धाति ।\nतासा॑म॒र्चींषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ॥१३॥\nआ॒चा॒र्योऽ मृ॒त्युर्वरु॑णः॒ सोम॒ ओष॑धयः॒ पयः॑ ।\nजी॒भूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्व॑१राभृ॑तम्॥१४॥\nअ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो भू॒त्वा वरु॑णो॒ यद्य॒दैच्छत् प्र॒जाप॑तौ ।\nतद् ब्र॑ह्मचा॒री प्राय॑च्छत् स्वन् मि॒त्रो अध्या॒त्मनः॑ ॥१५॥\nआ॒चा॒र्योऽ ब्रह्मचा॒री ब्र॑ह्मच॒री प्र॒जाप॑तिः ।\nप्र॒जाप॑ति॒र्वि रा॑जति वि॒राडिन्द्रो॑ऽभवद् व॒शी॥१६॥\nब्र॒ह्म॒चर्ये॑ण॒ तप॑सा॒ राजा॑ रा॒ष्ट्रं वि र॑क्षति ।\nआ॒चा॒र्योऽ ब्रह्म॒चर्ये॑ण ब्रह्मचा॒रिण॑मिच्छते ॥१७॥\nब्र॒ह्म॒चर्ये॑ण क॒न्या॒३ युवा॑नं विन्दते॒ पति॑म्।\nअ॒न॒ड्वान् ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ॥१८॥\nब्र॒ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत ।\nइन्द्रो॑ ह ब्र॒ह्मचर्ये॑ण दे॒वेभ्यः॒ स्व॑१राभ॑रत्॥१९॥\nओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑ ।\nसं॒व॒त्स॒रः स॒हर्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥२०॥\nपार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या ग्रा॒म्याश्च॒ ये।\nअ॒प॒क्षाः प॒क्षिण॑श्च॒ ये ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥२१॥\nपृथ॒क् सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति ।\nतान्त्सर्वा॒न् ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम्॥२२॥\nदे॒वाना॑मे॒तत् प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्।\nतस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मते॑न सा॒कम्॥२३॥\nब्र॒ह्म॒चा॒री ब्रह्म॒ भ्राज॑द् बिभर्ति॒ तस्मि॑न् दे॒वा अधि॒ विश्वे॑ स॒मोताः॑ ।\nप्रा॒णा॒पा॒नौ ज॒नय॒न्नाद् व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम्॥२४॥\nचक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म्।२५॥\nतानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत् त॒प्यमा॑नः समु॒द्रे।\nस स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥२६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 6,
"text": "पापमोचनम्।\n१-२३ शन्तातिः। चन्द्रमाः, मन्त्रोक्ताः। अनुष्टुप्, २३ बृहतीगर्भा।\nअ॒ग्निं ब्रू॑मो॒ वन॒स्पती॒नोष॑धीरु॒त वी॒रुधः॑ ।\nइन्द्रं॒ बृह॒स्पतिं॒ सूर्यं॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१॥\nब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्।\nअंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२॥\nब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्।\nत्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥३॥\nग॒न्ध॒र्वा॒प्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म्।\nअ॒र्य॒मा नाम॒ यो दे॒वस्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥४॥\nअ॒हो॒रा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा।\nविश्वा॑नादि॒त्यान् ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥५॥\nवातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑ ।\nआशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥६॥\nमु॒ञ्चन्तु॑ मा शप॒थ्याऽदहोरा॒त्रे अथो॑ उ॒षाः ।\nसोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥७॥\nपार्थि॑वा दि॒व्यः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः ।\nश॒कुन्ता॑न् प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥८॥\nभ॒वा॒श॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः ।\nइषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ॥९॥\nदिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान्।\nस॒मु॒द्रा न॒द्योऽ वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१०॥\nस॒प्त॒र्षीन् वा इ॒दं ब्रू॑मो॒ऽपो दे॒वीः प्र॒जाप॑तिम्।\nपि॒तॄन् य॒मश्रे॑ष्ठान् ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥११॥\nये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये।\nपृ॒थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१२॥\nआ॒दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः।\nअङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१३॥\nय॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा।\nयजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१४॥\nपञ्च॑ रा॒ज्यानि॑ वी॒रुधां॒ सोम॑श्रेष्ठानि ब्रूमः ।\nद॒र्भो भङ्गो यवः॒ सह॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१५॥\nअ॒राया॑न् ब्रूमो॒ रक्षां॑सि स॒र्पान् पु॑ण्यज॒नान् पि॒तृन्।\nमृ॒त्यूनेक॑शतं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१६॥\nऋ॒तून् ब्रू॑म ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।\nसमाः॑ संवत्स॒रान् मासां॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१७॥\nएत॑ देवा दक्षिण॒तः प॒श्चात् प्राञ्च॑ उ॒देत॑ ।\nपु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१८॥\nविश्वा॑न् दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑ ।\nविश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१९॥\nसर्वा॑न् दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑ ।\nसर्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२०॥\nभू॒तं ब्रू॑मो भूत॒पतिं॑ भू॒ताना॑मु॒त यो व॒शी।\nभू॒तानि॒ सर्वा॑ सं॒गत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२१॥\nया दे॒वीः पञ्च॑ प्र॒दिशो॒ ये दे॒वा द्वाद॑श॒र्तवः॑ ।\nसं॒व॒त्स॒रस्य॒ ये दंष्ट्रा॒स्ते नः॑ सन्तु॒ सदा॑ शि॒वाः ॥२२॥\nयन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्।\nतदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त् तदापो॑ दत्त भेष॒जम्॥२३॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 7,
"text": "उच्छिष्ट ब्रह्म-सूक्तम्।\n१-२७ अथर्वा। अध्यात्मं, उच्छिष्टः। अनुष्टप्, ६ पुर उष्णिग्बार्हतपरा, २१ स्वराट्, २२ विराट् पथ्याबृहती।\nउच्छि॑ष्टे॒ नाम॑ रू॒पं चोच्छि॑ष्टे लो॒क आहि॑तः ।\nउच्छि॑ष्ट॒ इन्द्र॑श्चा॒ग्निश्च॒ विश्व॑म॒न्तः स॒माहि॑तम्॥१॥\nउच्छि॑ष्टे॒ द्यावा॑पृथि॒वी विश्वं॑ भू॒तं स॒माहि॑तम्।\nआपः॑ समु॒द्र उच्छि॑ष्टे च॒न्द्रमा॒ वात॒ आहि॑तः ॥\nसन्नुच्छि॑ष्टे॒ असं॑श्चो॒भौ मृ॒त्युर्वाजः॑ प्र॒जाप॑तिः ।\nलै॒क्या उच्छि॑ष्ट॒ आय॑त्ता॒ व्रश्च॒ द्रश्चापि॒ श्रीर्मयि॑ ॥३॥\nदृ॒ढो दृं॑हस्थि॒रो न्यो ब्रह्म॑ विश्व॒सृजो दश॑ ।\nनाभि॑मिव स॒र्वत॑श्च॒क्रमुच्छि॑ष्टे दे॒वताः॑ श्रि॒ताः ॥४॥\nऋक् साम॒ यजु॒रुच्छि॑ष्ट उद्गी॒थः प्रस्तु॑तं स्तु॒तम्।\nहि॒ङ्का॒र उच्छि॑ष्टे॒ स्वरः॒ साम्नो॑ मे॒डिश्च॒ तन्मयि॑ ॥५॥\nऐ॒न्द्रा॒ग्नं पा॑वमा॒नं म॒हाना॑म्नीर्महाव्र॒तम्।\nउच्छि॑ष्टे य॒ज्ञस्याङ्गा॑न्य॒न्तर्गर्भ॑ इव मा॒तरि॑ ॥६॥\nरा॒ज॒सूयं॑ वाज॒पेय॑मग्निष्टो॒मस्तद॑ध्व॒रः ।\nअ॒र्का॒श्व॒मे॒धावुच्छि॑ष्टे जी॒वब॑र्हिर्म॒दिन्त॑मः ॥७॥\nअ॒ग्न्या॒धेय॒मथो॑ दी॒क्षा का॑म॒प्रश्छन्द॑सा स॒ह।\nउत्स॑न्ना य॒ज्ञाः स॒त्राण्युच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥८॥\nअ॒ग्नि॒हो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑ ।\nदक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥९॥\nए॒क॒रा॒त्रो द्वि॑रा॒त्रः स॑द्यः॒क्रीः प्र॒क्रीरु॒क्थ्यः ।\nओतं॒ निहि॑त॒मुच्छि॑ष्टे य॒ज्ञस्या॒णूनि॑ वि॒द्यया॑ ॥१०॥\nच॒तू॒रा॒त्रः प॑ञ्चरा॒त्रः ष॑ड्रा॒त्रश्चो॒भयः॑ स॒ह।\nषो॒ड॒शी स॑प्तरा॒त्रश्चोच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॒ ये य॒ज्ञा अ॒मृते॑ हि॒ताः ॥११॥\nप्र॒ती॒हा॒रो नि॒धनं॑ विश्व॒जिच्चा॑भि॒जिच्च॒ यः ।\nसा॒ह्ना॒ति॒रा॒त्रावुच्छि॑ष्टे द्वादशा॒होऽपि॒ तन्मयि॑ ॥१२॥\nसू॒नृता॒ संन॑तिः॒ क्षेमः॑ स्व॒धोर्जामृतं॒ सहः॑ ।\nउच्छि॑ष्टे॒ सर्वे॑ प्र॒त्यञ्चः॒ कामाः॒ कामे॑न ततृपुः॥१३॥\nनव॒ भूमीः॑ समु॒द्रा उच्छि॒ष्टेऽअधि॑ श्रि॒ता दिवः॑ ।\nआ सूर्यो॑ भा॒त्युच्छि॑ष्टेऽहोरा॒त्रे अपि॒ तन्मयि॑ ॥१४॥\nउ॒प॒हव्यं॑ विषू॒वन्तं॒ ये च॑ य॒ज्ञा गुहा॑ हि॒ताः ।\nबिभ॑र्ति भ॒र्ता विश्व॒स्योच्छि॑ष्टो जनि॒तुः पि॒ता॥१५॥\nपि॒ता ज॑नि॒तुरुच्छि॒ष्टोऽसोः॒ पौत्रः॑ पिताम॒हः ।\nस क्षि॑यति॒ विश्व॒स्येशा॑नो॒ वृषा॒ भूम्या॑मति॒घ्न्यः ॥१६॥\nऋ॒तं स॒त्यं तपो॑ रा॒स्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च ।\nभू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं ल॒क्ष्मीर्बलं॒ बले॑ ॥१७॥\nसमृ॑द्धि॒रोज॒ आकू॑तिः क्ष॒त्रं रा॒ष्ट्रं षडु॒र्व्यः ।\nसं॒व॒त्स॒रोऽध्युच्छि॑ष्ट इडा॑ प्रै॒षा ग्रहा॑ ह॒विः ॥१८॥\nचतु॑र्होतार आ॒प्रिय॑श्चातुर्मा॒स्यानि॑ नी॒विदः॑ ।\nउच्छि॑ष्टे य॒ज्ञाः होत्राः॑ पशुब॒न्धास्तदिष्ट॑यः ॥१९॥\nअ॒र्ध॒मा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह।\nउच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही॥२०॥\nशर्क॑राः॒ सिक॑ता॒ अश्मा॑न॒ ओष॑धयो वी॒रुध॒स्तृणा॑ ।\nअ॒भ्राणि॑ वि॒द्युतो॑ व॒र्षमुच्छि॑ष्टे॒ संश्रि॑ता श्रि॒ता॥२१॥\nराद्धिः॒ प्राप्तिः॒ समा॑प्ति॒र्व्याऽप्ति॒र्मह॑ एध॒तुः ।\nअत्या॑प्ति॒रुच्छि॑ष्टे॒ भूति॒श्चाहि॑ता॒ निहि॑ता हि॒ता॥२२॥\nयच्च॑ प्रा॒णति॑ प्रा॒णेन॒ यच्च॒ पश्य॑ति॒ चक्षु॑षा ।\nउच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥२३॥\nऋचः॒ सामा॑नि॒ च्छन्दां॑सि पुरा॒णं यजु॑षा स॒ह।\nउच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥२४॥\nप्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या।\nउच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥२५॥\nआ॒न॒न्दा मोदाः॑ प्र॒मुदो॑ऽभिमोद॒मुद॑श्च॒ ये।\nउच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥२६॥\nदे॒वाः पि॒तरो॑ मनु॒ष्याऽ गन्धर्वाप्स॒रस॑श्च॒ ये।\nउच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥२७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 8,
"text": "अध्यात्मम्।\n१-३४ कौरुपथिः। अध्यात्मं, मन्युः। अनुष्टुप्, ३३ पथ्यापङ्क्तिः।\nयन्म॒न्युर्जा॒यामाव॑हत् संक॒ल्पस्य॑ गृ॒हादधि॑ ।\nक आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोऽभवत्॥१॥\nतप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यऽर्ण॒वे।\nत आ॑सं॒ जन्या॒स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रोऽभवत्॥२॥\nदश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा।\nयो वै तान् वि॒द्यात् प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद् व॑देत्॥३॥\nप्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या।\nव्या॒नो॒दा॒नौ वाङ् मन॒स्ते वा आकू॑ति॒माव॑हन्॥४॥\nअजा॑ता आसन्नृ॒तवोऽथो॑ धा॒ता बृह॒स्पतिः॑ ।\nइ॒न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ॥५॥\nतप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे।\nतपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत् ते ज्ये॒ष्ठमुपा॑सत ॥६॥\nयेत आसी॒द् भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद् वि॒दुः ।\nयो वै तां वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित्॥७॥\nकुत॒ इन्द्रः॒ कुतः॒ सोमः॒ कुतो॑ अ॒ग्निर॑जायत ।\nकुत॒स्त्वष्टा॒ सम॑भव॒त् कुतो॑ धा॒ताजा॑यत ॥८॥\nइन्द्रा॒दिन्द्रः॒ सोमा॒त् सोमो॑ अ॒ग्नेर॒ग्निरजायत ।\nत्वष्टा॑ ह जज्ञे॒ त्वष्टु॑र्धा॒तुर्धा॒ताजा॑यत ॥९॥\nये त आस॒न् दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा।\nपु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ॥१०॥\nय॒दा केशा॒नस्थि॒ स्नाव॑ मां॒सं म॒ज्जान॒माभ॑रत्।\nशरी॑रं कृ॒त्वा पाद॑व॒त् कं लो॒कमनु॒ प्रावि॑शत्॥११॥\nकुतः॒ केशा॒न् कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत्।\nअङ्गा॒ पर्वा॑णि म॒ज्जानं को मां॒सं कुत॒ आभ॑रत्॥१२॥\nसं॒सिचो॒ नाम॒ ते दे॒वा ये सं॑भा॒रान्त्स॒मभ॑रन्।\nसर्वं॑ सं॒सिच्य॒ मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन्॥१३॥\nऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरौ॒ हस्ता॒वथो॒ मुख॑म्।\nपृ॒ष्टीर्ब॑र्ज॒ह्ये पा॒र्श्वे कस्तत् सम॑दधा॒दृषिः॑ ॥१४॥\nशिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः ।\nत्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत् सं॒धा सम॑दधान्म॒ही॥१५॥\nयत् तच्छरी॑र॒मश॑यत् सं॒धया॒ संहि॑तं म॒हत्।\nयेने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न् वर्ण॒माभ॑रत्॥१६॥\nसर्वे॑ दे॒वा उपा॑शिक्ष॒न् तद॑जानाद् व॒धूः स॒ती।\nई॒शा वश॑स्य॒ या जा॒या सास्मि॒न् वर्ण॒माभ॑रत्॥१७॥\nय॒दा त्वष्टा॒ व्यतृ॑णत् पि॒ता त्वष्टु॒र्य उत्त॑रः ।\nगृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन्॥१८॥\nस्वप्नो॒ वै त॒न्द्रीर्निरृ॑तिः पा॒प्मानो॒ नाम॑ दे॒वताः॑ ।\nज॒रा खाल॑त्यं॒ पालि॑त्यं॒ शरी॑र॒मनु॒ प्रावि॑शन्॥१९॥\nस्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्।\nबलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन्॥२०॥\nभूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः ।\nक्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन्॥२१॥\nनि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च ।\nशरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन्॥२२॥\nवि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यऽम्।\nशरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ॥२३॥\nआ॒न॒न्दा मोदाः॑ प्र॒मुदो॑ऽभिमोद॒मुद॑श्च॒ ये।\nह॒सो न॒रिष्टा॑ नृ॒त्तानि॒ शरी॑र॒मनु॒ प्रावि॑शन्॥२४॥\nआ॒ला॒पाश्च॑ प्रला॒पाश्चा॑भिलाप॒लप॑श्च॒ ये।\nशरी॑रं॒ सर्वे॒ प्रावि॑शन्ना॒युजः॑ प्र॒युजो॒ युजः॑ ॥२५॥\nप्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या।\nव्या॒नो॒दा॒नौ वाङ् मनः॒ शरी॑रेण॒ त ई॑यन्ते ॥२६॥\nआ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः ।\nचि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन्॥२७॥\nआस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः ।\nगुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन्॥२८॥\nअस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन्।\nरेतः॑ कृ॒त्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन्॥२९॥\nया आपो॒ याश्च॑ दे॒वता॒ या वि॒राड् ब्रह्म॑णा स॒ह।\nशरी॑रं॒ ब्रह्म॒ प्रावि॑श॒च्छरी॒रेऽधि॑ प्र॒जाप॑तिः ॥३०॥\nसूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे ।\nअथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥३१॥\nतस्मा॒द् वै विद्वान् पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते ।\nसर्वा॒ ह्यऽस्मिन् दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ॥३२॥\nप्र॒थ॒मेन॑ प्रमा॒रेण॑ त्रे॒धा विष्व॒ङ् वि ग॑च्छति ।\nअ॒द एके॑न॒ गच्छ॑त्य॒द एके॑न गच्छती॒हैके॑न॒ नि षे॑वते ॥३३॥\nअ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम्।\nतस्मिं॒छवोऽध्य॑न्त॒रा तस्मा॒च्छवोऽध्यु॑च्यते ॥३४॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 9,
"text": "शत्रुनिवारणम् ।\n१-२६ काङ्कायनः। अर्बुदिः। अनुष्टुप्, १ सप्तपदा विराट् शक्वरी त्र्यवसाना, ३ परोष्णिक्,\n४ त्र्यवसाना उष्णिग्बृहतीगर्भा परा त्रिष्टुप् षट् पदातिजगती, ९, ११, १४, २३, २६ पथ्यापङ्क्तिः,\n१५, २२, २४-२५ त्र्यवसाना सप्तपदा शक्वरी, १६ त्र्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्, १७ त्रिपदा गायत्री।\nये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याऽणि च ।\nअ॒सीन् प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि ।\nसर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥१॥\nउत् ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्।\nसंदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥२॥\nउत् ति॑ष्ठत॒मा र॑भेतामादानसंदा॒नाभ्या॑म्।\nअ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥३॥\nअर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यऽर्बुदिः ।\nयाभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही।\nताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ॥४॥\nउत् ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।\nभ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय ॥५॥\nस॒प्त जा॒तान् न्यऽर्बुद उदा॒राणां॑ समी॒क्षय॑न्।\nतेभि॒ष्ट्वमाज्ये॑ हु॒ते सर्वै॒रुत्ति॑ष्ठ॒ सेन॑या ॥६॥\nप्र॒ति॒घ्ना॒नाश्रु॑मु॒खी कृ॑धुक॒र्णी च॑ क्रोशतु ।\nवि॒के॒शी पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥७॥\nसं॒कर्ष॑न्ती क॒रूक॑रं॒ मन॑सा पु॒त्रमि॒च्छ॑न्ती॑ ।\nपतिं॒ भ्रात॑र॒मात्स्वान् र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥८॥\nअ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ।\nध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न् रदि॒ते अ॑र्बुदे॒ तव॑ ॥९॥\nअथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑ ।\nपौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ॥१०॥\nआ गृ॑ह्णीतं॒ सं बृ॑हतं प्रानापानान् न्य॑र्बुदे ।\nनि॒वा॒शा घोषाः॒ सं य॑न्त्व॒मित्रे॑षु समी॒क्षयन् रदि॒ते अ॑र्बुदे॒ तव॑ ॥११॥\nउद् वे॑पय॒ सं वि॑जन्तां भि॒यामित्रा॒न्त्सं सृ॑ज ।\nउ॒रु॒ग्रा॒हैर्बा॑ह्व॒ङ्कैर्विध्या॒मित्रा॑न् न्यर्बुदे ॥१२॥\nमुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि।\nमैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥१३॥\nप्र॒ति॒घ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः ।\nअ॒घा॒रिणी॑र्विके॒श्योऽ रुद॒त्यः॑१ पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥१४॥\nश्वऽन्वतीरप्स॒रसो॒ रूप॑का उ॒तार्बु॑दे ।\nअ॒न्तः॒पा॒त्रे रेरि॑हतीं रि॒शां दु॑र्णिहितै॒षिणी॑म्।\nसर्वा॒स्ता अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥१५॥\nख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्।\nय उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये ।\nस॒र्पा इ॑तरज॒ना रक्षां॑सि ॥१६॥\nचतुर्दंष्ट्रांछ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान्।\nस्व॒भ्य॒सा ये चो॑द्भ्य॒साः ॥१७॥\nउद् वे॑पय॒ त्वम॑र्बुदे॒ऽमित्रा॑णाम॒मूः सिचः॑ ।\nजयां॑श्च जि॒ष्णुश्चा॒मित्रां॒ जय॑ता॒मिन्द्र॑मेदिनौ ॥ १८॥\nप्रब्ली॑नो मृदि॒तः श॑यां ह॒तो॒३मित्रो॑ न्यर्बुदे ।\nअ॒ग्नि॒जि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु॒ सेन॑या ॥१९॥\nतया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्।\nअ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न॥२०॥\nउत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु ।\nशौ॒ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ॥२१॥\nये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये।\nत॒म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑ ।\nसर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्रद॑र्शय ॥२२॥\nअर्बु॑दिश्च॒ त्रिषंधिश्चा॒मित्रा॑न् नो॒ वि वि॑ध्यताम्।\nयथै॑षामिन्द्र वृत्रहन् हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥२३॥\nवन॒स्पती॑न् वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑ ।\nग॒न्ध॒र्वा॒प्स॒रसः॑ स॒र्पान् दे॒वान् पु॑ण्यज॒नान् पि॒तॄ॒न्।\nसर्वां॒स्तां अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥२४॥\nई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑ ।\nई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः ।\nई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न् रदि॒ते अ॑र्बुदे॒ तव॑ ॥२५॥\nतेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत् ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्।\nइ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम्॥२६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 11,
"sukta": 10,
"text": "शत्रुनाशनम्।\n१-२७ भृग्वङ्गिराः। त्रिषन्धिः। अनुष्टुप्, १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्-पदा त्रिष्टुब्गर्भाऽतिजगती, ३ विराडास्तारपङ्क्तिः, ४ विराट्, ८ विराट् त्रिष्टुप्, ९ पुरोविराट् पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापङ्क्तिः, १३ षट्-पदा जगती, १६ त्र्यवसाना षट्-पदा ककुम्मत्यनुष्टुप्त्रिष्टुब्गर्भा शक्वरी, १७ पथ्यापङ्क्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद्बृहती, २५ ककुप्, २६ प्रस्तारपङ्क्तिः।\nउत् ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह।\nसर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥१॥\nई॒शां वो॑ वेद॒ राज्यं॒ त्रिषं॑धे अरु॒णैः के॒तुभिः॑ स॒ह।\nये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः।\nत्रिषं॑धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम्॥२॥\nअयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः ।\nक्र॒व्यादो॒ वात॑रंहसः॒ आ स॑जन्त्व॒मित्रा॒न् वज्रे॑ण॒ त्रिषं॑धिना ॥३॥\nअ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु।\nत्रिषं॑धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥४॥\nउत् ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।\nअ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिषं॑धे॒राहु॑तिः प्रि॒या॥५॥\nशि॒ति॒प॒दी सं द्य॑तु शर॒व्ये॒३यं चतु॑ष्पदी ।\nकृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिषं॑धेः स॒ह सेन॑या ॥६॥\nधू॒मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु ।\nत्रिषं॑धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥७॥\nअवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति ।\nश्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम्॥८॥\nयामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते ।\nतया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न् दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥९॥\nबृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः ।\nअ॒सु॒र॒क्षय॑णं व॒धं त्रिषं॑धिं दि॒व्याश्र॑यन्॥१०॥\nयेना॒सौ गु॒प्त आ॑दि॒त्य उ॒भाविन्द्र॑श्च॒ तिष्ठ॑तः।\nत्रिषं॑धि दे॒वा अ॑भज॒न्तौज॑से च॒ बला॑य च ॥११॥\nसर्वां॑ल्लो॒कान्त्सम॑जयन् दे॒वा आहु॑त्या॒नया॑ ।\nबृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसिञ्चतासुर॒क्षय॑णं व॒धम्॥१२॥\nबृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्।\nतेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न् ह॒न्म्योज॑सा ॥१३॥\nसर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट् कृतम् ।\nइ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ॥१४॥\nसर्वे॑ दे॒वा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या।\nसं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥१५॥\nवा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु ।\nइन्द्र॑ एषां बा॒हून् प्रति॑ भनक्तु॒ मा श॑कन् प्रति॒धामिषु॑म्।\nआ॒दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म्॥१६॥\nयदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे।\nत॒नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥१७॥\nक्र॒व्यादा॑नुव॒र्तय॑न्मृ॒त्युना॑ च पु॒रोहि॑तम्।\nत्रिष॑न्धे॒ प्रेहि॒ सेन॑या॒ जया॒मित्रा॒न् प्र प॑द्यस्व ॥१८॥\nत्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न् परि॑ वारय ।\nपृ॒ष॒दा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न॥१९॥\nशि॒ति॒प॒दी सं प॑तत्व॒मित्रा॑णाम॒मूः सिचः॑ ।\nमुह्य॑न्त्व॒द्यामूः सेनाः॑ अ॒मित्रा॑नां न्यर्बुदे ॥२०॥\nमू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्येऽषां॒ वरं॑वरम्।\nअ॒नया॑ जहि॒ सेन॑या ॥२१॥\nयश्च॑ कव॒ची यश्चा॑कव॒चो॒३मित्रो॒ यश्चाज्म॑नि ।\nज्या॒पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम्॥२२॥\nये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑ ।\nसर्वां॒स्तां अ॑र्बुदे ह॒तांछ्वानो॑ऽदन्तु॒ भूम्या॑म्॥२३॥\nये र॒थिनो॑ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑ ।\nसर्वा॑नदन्तु॒ तान् ह॒तान् गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥२४॥\nस॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्।\nविवि॑द्धा कक॒जाकृ॑ता ॥२५॥\nम॒र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्।\nय इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥२६॥\nयां दे॒वा अ॑नु॒तिस्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्।\nतयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिषं॑धिना ॥२७॥\n"
}
]