-
Notifications
You must be signed in to change notification settings - Fork 35
Expand file tree
/
Copy pathatharvaveda_kaanda_3.json
More file actions
219 lines (219 loc) · 88.7 KB
/
atharvaveda_kaanda_3.json
File metadata and controls
219 lines (219 loc) · 88.7 KB
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
[
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 1,
"text": "शत्रुसेनासंमोहनम्।\n१-६ अथर्वा। सेनामोहनम्, १ अग्निः, २ मरुतः, ३-६ इन्द्रः। त्रिष्टुप्,\n२ विराड्गर्भा भुरिक्, ३-६ अनुष्टुप्, ५ विराट् पुरउष्णिक्।\nअ॒ग्निर्नः॒ शत्रू॒न् प्रत्ये॑तु वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।\nस सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥१॥\nयू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्।\nअमी॑मृण॒न् वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्येऽषां दू॒तः प्र॒त्येतु॑ वि॒द्वान्॥२॥\nअ॒मि॒त्र॒से॒नां॑ मघवन्न॒स्मान् छ॑त्रूय॒तीम॒भि।\nयु॒वं तानि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑ ॥३॥\nप्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्।\nज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क् स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम्॥४॥\nइन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्।\nअ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय ॥५॥\nइन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा ।\nचक्षूं॑स्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 2,
"text": "शत्रुसेनासंमोहनम्।\n१-६ अथर्वा। सेनामोहनम्, १-२ अग्निः, ३-४ इन्द्रः, ५ द्यौः, ६ मरुतः। त्रिष्टुप्, २-४ अनुष्टुप्।\nअ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।\nस चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥१॥\nअ॒यम॒ग्निर॑मूमुह॒द् यानि॑ चि॒त्तानि॑ वो हृ॒दि।\nवि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑ ॥२॥\nइन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर ।\nअ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय ॥३॥\nव्याऽकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत ।\nअथो॒ यद॒द्यैषां॑ हृदि तदे॑षां॒ परि॒ निर्ज॑हि ॥४॥\nअ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।\nअ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न्॥५॥\nअ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मा॑नैत्य॒भ्योज॑सा॒ स्पर्ध॑माना ।\nतां वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात्॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 3,
"text": "स्वराज्ये राज्ञः पुनः स्थापननम्।\n१-६ अथर्वा। १ अग्निः, २ इन्द्रः, ३ वरुणः सोमः इन्द्रः, ४ श्येनः अश्विनौ, ५ इन्द्राग्नी विश्वे देवाः,\n६ इन्द्रः। त्रिष्टुप्, ३ चतुष्पदा भुरिक्पङ्क्तिः, ५-६ अनुष्टुप्।\nअ॑चिक्रदत् स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्यऽचस्व॒ रोद॑सी उरू॒ची।\nयु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम्॥१॥\nदू॒रे चि॒त् सन्त॑मरु॒षास॒ इन्द्र॒मा च्या॑वयन्तु स॒ख्याय॒ विप्र॑म्।\nयद् गा॑य॒त्रीं बृ॑ह॒तीम॒र्कम॑स्मै सौत्राम॒ण्या दधृ॑षन्त दे॒वाः ॥२॥\nअ॒द्भ्यस्त्वा॒ राजा॒ व॑रुणो ह्वयतु॒ सोम॑स्त्वा ह्वयतु॒ पर्व॑तेभ्यः ।\nइन्द्र॑स्त्वा ह्वयतु वि॒ड्भ्य॑ आ॒भ्यः श्ये॒नो भू॒त्वा विश॒ आ प॑ते॒माः ॥३॥\nश्ये॒नो ह॒व्यं न॑य॒त्वा पर॑स्मादन्यक्षे॒त्रेअप॑रुद्धं॒ चर॑न्तम्।\nअ॒श्विना॒ पन्थां॑ कृणुतां सु॒गं त॑ इ॒मं स॑जाता अभि॒संवि॑शध्वम्॥४॥\nह्वय॑न्तु त्वा प्रतिज॒नाः प्रति॑ मित्रा अ॑वृषत ।\nइ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते वि॒शि क्षेम॑मदीधरन्॥५॥\nयस्ते॒ हवं वि॒वद॑त् सजा॒तो यश्च॒ निष्ट्यः॑ ।\nअ॑पाञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 4,
"text": "प्रजाभी राज्ञः संवरणम्।\n१-७ अथर्वा। इन्द्रः, २ पञ्च प्रदिशः, ४ अश्विनौ, मित्रावरुणौ, विश्वे देवाः, मरुतः,\n५ द्यावापृथिवी। त्रिष्टुप्, १ जगती, ४-५ भुरिक्।\nआ त्वा॑ गन् रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि प्रा॑ङ्वि वि॒शां पति॑रेक॒राट् त्वं वि रा॑ज ।\nसर्वा॑स्त्वा राजन् प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्योऽ भवे॒ह॥१॥\nत्वां विशो॑ वृणतां रा॒ज्याऽय॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः ।\nवर्ष्म॑न् रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥२॥\nअच्छ॑ त्वा यन्तु ह॒विनः॑ सजा॒ता अ॒ग्निर्दू॒तो अ॑जि॒रः सं च॑रातै ।\nजा॒याः पु॒त्राः सु॒मन॑सो भवन्तु ब॒हुं ब॒लिं प्रति॑ पश्यासा उ॒ग्रः ॥३॥\nअ॒श्विना॒ त्वाग्रे॑ मि॒त्रावरु॑णो॒भा विश्वे॑ दे॒वा म॒रुत॑स्त्वा ह्वयन्तु ।\nअधा॒ मनो॑ वसु॒देया॑य कृणुष्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥४॥\nआ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्।\nतद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त् स उपे॒दमेहि॑ ॥५॥\nइन्द्रे॑न्द्र मनु॒ष्याः॒३ परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः ।\nस त्वा॒यम॑ह्व॒त् स्वे स॒धस्थे॒ स दे॒वान् य॑क्ष॒त् स उ॑ कल्पया॒द् विशः॑ ॥६॥\nप॒थ्याऽ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्।\nतास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह॥७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 5,
"text": "राष्ट्रस्य राजा राजकृतश्च\n/\n१-८ अथर्वा। सोमः। १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती।\nआयम॑गन् पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्।\nओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन्॥१॥\nमयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद् र॒यिम्।\nअ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ॥२॥\nयं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्।\nतम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ॥३॥\nसोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः ।\nतं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥४॥\nआ मा॑रुक्षत् पर्णम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये ।\nयथा॒हमु॑त्त॒रोऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ॥५॥\nये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑ ।\nउ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जना॑न्॥६॥\nये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्यऽश्च॒ ये।\nउ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जनान्॥७॥\nप॒र्णोऽसि तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑ ।\nसं॒व॒त्स॒रस्य॒ तेज॑सा॒ तेन॒ बध्नामि त्वा मणे ॥८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 6,
"text": "शत्रुनाशनम्।\n१-८ जगद्वीजं पुरुषः। वानस्पत्योऽश्वत्थः। अनुष्टुप्।\nपुमा॑न् पुंसः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑ ।\nस ह॑न्तु॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम्॥१॥\nतान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न् वैबाध॒दोध॑तः ।\nइन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥२॥\nयथा॑श्वत्थ नि॒रभ॑नो॒ऽन्तर्म॑ह॒त्यऽर्ण॒वे।\nए॒वा तान्त्सर्वा॒न् निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम्॥३॥\nयः सह॑मान॒श्चर॑सि सासहा॒न इव ऋष॒भः ।\nतेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ॥४॥\nसि॒नात्वे॑ना॒न् निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः ।\nअश्व॑त्थ॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम्॥५॥\nयथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न् कृणु॒षेऽध॑रान्।\nए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग् भिन्द्धि॒ सह॑स्व च ॥६॥\nतेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।\nन वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम्॥७॥\nप्रैणा॑न् नुदे॒ मन॑सा॒ प्र चि॒त्ते॑नो॒त ब्रह्म॑णा ।\nप्रैणा॑न् वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 7,
"text": "यक्ष्मनाशनम्।\n१-७ भृग्वङ्गिराः। १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम्। अनुष्टुप्, ६ भुरिक्।\nह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम्।\nस क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत्॥१॥\nअनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्।\nविषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि॥२॥\nअ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव च्छ॒दिः ।\nतेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥३॥\nअ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के ।\nवि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्॥४॥\nआप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।\nआपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात्॥५॥\nयदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे।\nवेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत्॥६॥\nअ॒प॒वा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त।\nअपा॒स्मत् सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑च्छतु ॥७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 8,
"text": "राष्ट्रधारणम्।\n१-६ अथर्वा। १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः,\n३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम्।\nत्रिष्टुप्, २-३ जगती, ४ चतुष्पदा विराड् बृहतीगर्भा, ५ अनुष्टुप्।\nआ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न् पृथि॒वीमु॒स्रिया॑भिः ।\nअथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद् रा॒ष्ट्रं सं॑वे॒श्यंऽ दधातु ॥१॥\nधा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑ ।\nहु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥२॥\nहु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे।\nअ॒यम॒ग्निर्दी॑दायद् दी॒र्घमे॒व स॑जा॒तैरि॒द्धोऽप्र॑तिब्रुवद्भिः ॥३॥\nइ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्।\nअ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ॥४॥\nसं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि ।\nअ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि ॥५॥\nअ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑ ।\nमम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 9,
"text": "दुःखनाशनम्।\n१-६ वामदेवः। द्यावापृथिवी, देवाः। अनुष्टुप्, ४ चतुष्पदा निचृद्बृहती, ६भुरिक्।\nक॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता।\nयथा॑भिच॒क्र दे॑वा॒स्तथाप॑ कृणुता॒ पुनः॑ ॥१॥\nअ॒श्रे॒ष्माणो॑ अधारय॒न् तथा॒ तन्मनु॑ना कृ॒तम्।\nकृणोमि॒ वध्रि॒ विष्क॑न्धं मुष्काब॒र्हो गवा॑मिव ॥२॥\nपि॒शङ्गे॒ सूत्रे॒ खृग॑लं॒ तदा ब॑ध्नन्ति वे॒धसः॑ ।\nश्र॒व॒स्युं शुष्मं॑ काब॒वं वध्रिं॑ कृण्वन्तु ब॒न्धुरः॑ ॥३॥\nयेना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑ ।\nशुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च ॥४॥\nदुष्ट्यै॒ हि त्वा॑ भ॒त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम्।\nउदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ ॥५॥\nएक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑ ।\nतेषां॒ त्वामग्रे॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम्॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 10,
"text": "रायस्पोषप्राप्तिः।\n१-१३ अथर्वा। अष्टका, धेनुः, २-४ रात्रिः, धेनुः, ५ एकाष्टका, ६ जातवेदाः, पशवः, ७ रात्रिः, यज्ञ ८ संवत्सरः,\n९ ऋतवः, १० धाता विधातारौ, ऋतवः, ११ देवाः, १२ इन्द्रः, देवाः, १३ प्रजापतिः।\nअनुष्टुप्, ४-६,१२ त्रिष्टुप् ७ त्र्यवसाना षट्पदा विराड् गर्भातिजगती।\nप्र॒थ॒मा ह॒ व्युऽवास॒ सा धे॒नुर॑भवद् य॒मे।\nसा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्॥१॥\nयां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमु॑पाय॒तीम्।\nसं॒व॒त्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली॥२॥\nसं॒व॒त्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे ।\nसा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥३॥\nइ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा ।\nम॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री ॥४॥\nवा॒न॒स्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्।\nएका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम्॥५॥\nइडा॑यास्प॒दं घृ॒तव॑त् सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय ।\nये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥६॥\nआ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म ।\nपू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त ।\nसर्वान् य॒ज्ञान्त्सं॑भुञ्ज॒तीषमूर्जं॑ न॒ आ भ॑र ॥७॥\nआयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑ ।\nसा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥८॥\nऋ॒तून् य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।\nसमाः॑ संवत्स॒रान् मासा॑न् भू॒तस्य॒ पत॑ये यजे ॥९॥\nऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑ ।\nधा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥१०॥\nइड॑या॒ जुह्व॑तो व॒यं दे॒वान् घृ॒तव॑ता यजे ।\nगृ॒हानलु॑भ्यतो व॒यं सं वि॑शे॒मोप॒ गोम॑तः ॥११॥\nए॒का॒ष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्।\nतेन॑ दे॒वा व्यऽसहन्त॒ शत्रू॑न् ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ॥१२॥\nइन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः ।\nकामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ॥१३॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 11,
"text": "दीर्घायुः प्राप्तिः।\n१-८ ब्रह्मा, भृग्वङ्गिराश्च। इन्द्राग्नी, आयुष्यं, यक्ष्मनाशनम्। त्रिष्टुप्, ४ शक्करीगर्भा जगती,\n५-६ अनुष्टुप्, ७ उष्णिग्बृहतीगर्भा पथ्यापङ्क्तिः, ८ त्र्यवसाना षट् पदा बृहतीगर्भा जगती।\nमु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्।\nग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम्॥१॥\nयदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व।\nतमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥२॥\nस॒ह॒स्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्।\nइन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम्॥३॥\nश॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान् छ॒तमु॑ वस॒न्तान्।\nश॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम्॥४॥\nप्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्।\nव्य॑१न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान् छ॒तम्॥५॥\nइ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्।\nशरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥६॥\nज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा ।\nज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॑१न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान् छ॒तम्॥७॥\nअ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा ।\nयस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑ ।\nतं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द् बृह॒स्पतिः॑ ॥८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 12,
"text": "शालानिर्माणम्।\n१-९ ब्रह्मा। शाला, वास्तोष्पतिः। त्रिष्टुप्, २ विराड् जगती, ३ बृहती, ६ शक्वरीगर्भा जगती,\n७ आर्षी अनुष्टुप्, ८ भुरिक्, ९अनुष्टुप्।\nइ॒हैव ध्रु॒वां नि मि॑नोमि॒ शालां॒ क्षेमे॑ तिष्ठाति घृ॒तमु॒क्षमा॑णा ।\nतां त्वा॑ शाले॒ सर्व॑वीराः सु॒वीरा॒ अरि॑ष्टवीरा॒ उप॒ सं च॑रेम ॥१॥\nइ॒हैव ध्रु॒वा प्रति॑ तिष्ठ शा॒लेऽश्वा॑वती॒ गोम॑ती सू॒नृता॑वती ।\nऊर्ज॑स्वती घृ॒तव॑ती॒ पय॑स्व॒त्युच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥२॥\nध॒रु॒ण्य॒ऽसि शाले बृ॒हच्छ॑न्दाः॒ पूति॑धान्या ।\nआ त्वा॑ व॒त्सो ग॑मे॒दा कु॑मा॒र आ धे॒नवः॑ सा॒यमा॒स्पन्द॑मानाः ॥३॥\nइ॒मां शालां॑ सवि॒ता वा॒युरिन्द्रो॒ बृह॒स्पति॒र्नि मि॑नोतु प्रजा॒नन्।\nउ॒क्षन्तू॒द्ना म॒रुतो॑ घृ॒तेन॒ भगो॑ नो॒ राजा॒ नि कृ॒षिं त॑नोतु ॥४॥\nमान॑स्य पत्नि शरणा स्योना दे॒वी दे॒वेभि॒र्निमिता॒स्यग्रे॑ ।\nतृणं॒ वसा॑ना सु॒मना॑ अस॒स्त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥५॥\nऋ॒तेन॑ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्।\nमा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ॥६॥\nएमां कु॑मा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह।\nएमां प॑रि॒स्रुतः॑ कु॒म्भ आ द॒ध्नः क॒लशै॑रगुः ॥७॥\nपू॒र्णं ना॑रि॒ प्र भ॑र कु॒म्भमे॒तं घृ॒तस्य॒ धारा॑म॒मृते॑न॒ संभृ॑ताम्।\nइ॒मां पा॒तॄन॒मृते॑ना॒ सम॑ङ्ग्धीष्टापू॒र्तम॒भि र॑क्षात्येनाम्॥८॥\nइ॒मा आपः॒ प्र भ॑राम्यय॒क्ष्मा य॑क्ष्म॒नाश॑नीः ।\nगृ॒हानुप॒ प्र सी॑दाम्य॒मृते॑न स॒हाग्निना॑ ॥९॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 13,
"text": "आपः।\n१-७ भृगुः। वरुणः, सिन्धुः, आपः, २-३ इन्द्रः। अनुष्टुप्, १ निचृत्, ५ विराड् जगती, ६ निचृदगनुष्टुप्।\nयद॒दः सं॑प्रय॒तीरहा॒वन॑दता हते॑।\nतस्मा॒दा न॒द्यो॒३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥१॥\nयत् प्रेषि॑ता॒ वरु॑णे॒नाच्छीभं॑ स॒मव॑ल्गत ।\nतदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॑दापो॒ अनु॑ ष्ठन ॥२॥\nअ॒प॒का॒मं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म्।\nइन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्नाम॑ वो हि॒तम्॥३॥\nएको॑ वो दे॒वोऽप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम्।\nउदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥४॥\nआपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत् ताः।\nती॒व्रो रसो॑ मधुपृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत्॥५॥\nआदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ् मा॑साम्।\nमन्ये॑ भेजा॒नो अ॒मृत॑स्य तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥६॥\nइ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः ।\nइ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ॥७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 14,
"text": "गोष्ठः।\n१-६ ब्रह्मा। गोष्ठः, अहः, २ अर्यमा, पूषा, बृहस्पतिः, इन्द्रः, १-६ गावः, ५ गोष्ठश्च। अनुष्टुप्, ६आर्षी त्रिष्टुप्।\nसं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या ।\nअह॑र्जातस्य॒ यन्नाम॒ तेना॒ वः॒ सं सृ॑जामसि ॥१॥\nसं वः॑ सृजत्वर्य॒मा सं पू॒षा सं बृह॒स्पतिः॑ ।\nसमिन्द्रो॒ यो ध॑नंज॒यो मयि॑ पुष्यत॒ यद् वसु॑ ॥२॥\nसं॒ज॒ग्मा॒ना अबि॑भ्युषीर॒स्मिन् गो॒ष्ठे क॑री॒षिणीः॑ ।\nबिभ्र॑तीः सो॒म्यं मध्व॑नमी॒वा उ॒पेत॑न ॥३॥\nइ॒हैव गा॑व॒ एत॑ने॒हो शके॑व पुष्यत ।\nइ॒हैवोत प्र जा॑यध्वं॒ मयि॑ सं॒ज्ञान॑मस्तु वः ॥४॥\nशि॒वो वो॑ गो॒ष्ठो भ॑वतु शारि॒शाके॑व पुष्यत ।\nइ॒हैवोत प्र जा॑यध्वं॒ मया॑ वः॒ सं सृ॑जामसि ॥५॥\nमया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः ।\nरा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 15,
"text": "वाणिज्यम्।\n१-८ अथर्वा (पण्यकामः)। विश्वे देवाः, इन्द्राग्नी। त्रिष्टुप्,१ भुरिक्,\n४ त्र्यवसाना षट् पदा बृहतीगर्भा विराडत्यष्टिः, ५ विराड्जगती, ७ अनुष्टुप्, ८ निचृत्।\nइन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु ।\nनु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म्॥१॥\nये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति ।\nते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥२॥\nइ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒ते॑न जुहो॑मि ह॒व्यं त॑रसे॒ बला॑य ।\nयाव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम्॥३॥\nइ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्।\nशु॒नं नो॑ अस्तु प्रप॒णो वि॑क्र॒यश्च॑ प्रतिप॒णः फ॒लिनं॑ मा कृणोतु ।\nइ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥४॥\nयेन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः ।\nतन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान् ह॒विषा॒ नि षे॑ध ॥५॥\nयेन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न दे॒वा धन॑मि॒च्छमा॑नः ।\nतस्मि॑न् म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ॥६॥\nउप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः ।\nस नः॑ प्र॒जास्वा॒त्मसु गोषु॑ प्रा॒णेषु॑ जागृहि ॥७॥\nवि॒श्वाहा॑ ते॒ सद॒मिद् भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः ।\nरा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 16,
"text": "स्वस्तये प्रार्थना।\n१-७ अथर्वा। १ अग्निः, इन्द्रः, मित्रावरुणौ, अश्विनौ, भगः, पूषा, ब्रह्मणस्पतिः, सोमः, रुद्रः,\n२-३ ५ भगः, आदित्यः, ४ इन्द्रः, ६ दधिक्रवा, अश्वाः, ७ उषाः। त्रिष्टुप्, १ आर्षी जगती, ४ भुरिक् पङ्क्तिः।\nप्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।\nप्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥१॥\nप्रा॒त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता।\nआ॒ध्रश्चि॒द् यं मन्य॑मानस्तु॒रश्चि॒द् राजा॑ चि॒द् यं भगं॑ भ॒क्षीत्याह॑ ॥२॥\nभग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।\nभग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥३॥\nउ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्।\nउ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥\nभग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम ।\nतं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह॥५॥\nसम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।\nअ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥\nअश्वा॑वती॒र्गोम॑तीर्न उ॒षा॑सो॑ वी॒रव॑तीः॒ सद॑मुछन्तु भ॒द्राः ।\nघृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 17,
"text": "कृषिः।\n१-९ विश्वामित्रः। सीता। अनुष्टुप्, १आर्षी गायत्री, २, ५, ९ त्रिष्टुप्,\n३ पथ्यापङ्क्तिः, ७ विराट् पुर उष्णिक्, ८ निचृत्।\nसीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒यौ॥१॥\nयु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्।\nवि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत् सृ॒ण्यः प॒क्वमा य॑वन्॥२॥\nलाङ्ग॑लं पवी॒रव॑त् सु॒शीमं॑ सोम॒सत्स॑रु ।\nउदिद् व॑पतु॒ गामविं॑ प्र॒स्थाव॑द् रथ॒वाह॑नं॒ पीब॑रीं च प्रफ॒र्व्यऽम्॥३॥\nइन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु ।\nसा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्॥४॥\nशु॒नं सु॑फा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्।\nशुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै॥५॥\nशु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्।\nशु॒नं व॑र॒त्रा ब॑ध्य॒न्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥६॥\nशुना॑सीरे॒ह स्म॑ मे जुषेथाम्।\nयद् दि॒वि च॒क्रथुः॒ पय॒स्तेने॒मामुप॑ सिञ्चतम्॥७॥\nसीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव ।\nयथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ॥८॥\nघृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑ ।\nसा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त् पिन्व॑माना ॥९॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 18,
"text": "वनस्पतिः।\n१-६ अथर्वा। वनस्पतिः। अनुष्टुप्, ४ अनुष्टुब्गर्भा चतुष्पदा उष्णिक्, ६ उष्णिग्गर्भा पथ्यापङ्क्तिः।\nइ॒मां ख॑ना॒म्योष॑धिं वी॒रुधां॒ बल॑वत्तमाम्।\nयया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म्॥१॥\nउत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति ।\nस॒पत्नीं॑ मे॒ परा॑ णुद॒ पतिं॑ मे॒ केव॑लं कृधि ॥२॥\nन॒हि ते॒ नाम॑ ज॒ग्राह॒ नो अ॒स्मिन् र॑मसे॒ पतौ॑ ।\nपरा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥३॥\nउत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः ।\nअ॒धः स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥४॥\nअ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः ।\nउ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥५॥\nअ॒भि ते॑ऽधां॒ सह॑माना॒मुप॑ तेऽधां॒ सही॑यसीम्।\nमामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 19,
"text": "अजरं क्षत्रम्।\n१-८ वसिष्ठः। विश्वे देवाः, चन्द्रमाः, इन्द्रः। अनुष्टुप्, १ पथ्याबृहती, ३ भुरिग्बृहती, ५ त्रिष्टुप्,\n६ त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती, ७ विराडास्तारपङ्क्तिः, ८ पथ्यापङ्क्तिः।\nसंशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्य॑१ बल॑म्।\nसंशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॒मस्मि॑ पु॒रोहि॑तः ॥१॥\nसम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्य॑१ बल॑म्।\nवृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम्॥२॥\nनी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्।\nक्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम्॥३॥\nतीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्तीक्ष्ण॑तरा उत॑।\nइन्द्र॑स्य॒ वज्रा॒त् तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥४॥\nए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सुवी॑रं वर्धयामि ।\nए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒३षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥५॥\nउद्ध॑र्षन्तां मघव॒न् वाजि॑ना॒न्युद् वी॒राणां॒ जय॑तामेतु॒ घोषः॑ ।\nपृथ॒ग् घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्।\nदे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥६॥\nप्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑ ।\nती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥७॥\nअव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते ।\nजया॒मित्रा॒न् प्र प॑द्यस्व ज॒ह्येऽषां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न॥८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 20,
"text": "रयिसंवर्धनम्।\n१-१० वसिष्ठः। १-२ अग्निःच ३ अर्यमा, भगः, बृहस्पतिः, देवीः, ४ सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः,\n५ अग्निः, ६ इन्द्रवायू, ७ अर्यमा, बृहस्पतिः, इन्द्रः, वातः, विष्णुः, सरस्वती, सविता, वाजी, ८ विश्वा भुवनानि,\n९ पञ्च प्रदिशः, १० वायुस्त्वष्टा। अनुष्टुप्, ६ पथ्यापङ्क्तिः, ८ विराड् जगती।\nअ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।\nतं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो बर्धय र॒यिम्॥१॥\nअग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ् नः॑ सु॒मना॑ भव ।\nप्र णो॑ यच्छ विशां पते धन॒दा अ॑सि न॒स्त्वम्॥२॥\nप्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ ।\nप्र दे॒वीः प्रोत सू॒नृता॑ र॒यिं दे॒वी द॑धातु मे ॥३॥\nसोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।\nआ॒दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म्॥४॥\nत्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय ।\nत्वं नो॑ देव॒ दात॑वे र॒यिं दाना॑य चोदय ॥५॥\nइ॒न्द्र॒वा॒यू उ॒भावि॒ह सु॒हवे॒ह ह॑वामहे ।\nयथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॒द् दान॑कामश्च नो॒ भुव॑त्॥६॥\nअ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।\nवातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म्॥७॥\nवाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नान्य॒न्तः ।\nउ॒तादि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ ॥८॥\nदु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्।\nप्रापे॑यं सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥९॥\nगो॒सनिं॒ वाच॑मुदेयं॒ वर्च॑सा मा॒भ्युदि॑हि ।\nआ रु॑न्धां स॒र्वतो॑ वा॒युस्त्वष्टा॒ पोषं॑ दधातु मे ॥१०॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 21,
"text": "शान्तिः।\n१-१० वसिष्ठः। अग्निः। त्रिष्टुप्, १ पुरोनुष्टुप्, २, ३, ८ भुरिक् ५ जगती,\n६ उपरिष्टाद्विराड् बृहती, ७ विराड् गर्भा, ९ निचृदनुष्टुप्, १० अनुष्टुप्।\nये अ॒ग्नयो॑ अ॒प्स्व॑१न्तर्ये वृ॒त्रे ये पुरु॑षे॒ ये अश्म॑सु ।\nय आ॑वि॒वेशोष॑धी॒र्यो वन॒स्पतीं॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥१॥\nयः सोमे॑ अ॒न्तर्यो गोष्व॒न्तर्य आवि॑ष्टो॒ वयः॑सु॒ यो मृ॒गेषु॑ ।\nय आ॑वि॒वेश॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥२॥\nय इन्द्रे॑ण स॒रथं॒ याति॑ दे॒वो वै॑श्वान॒र उ॒त वि॑श्वदा॒व्यः ।\nयं जोह॑वीमि॒ पृत॑नासु सास॒हिं तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥३॥\nयो दे॒वो वि॒श्वाद् यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः ।\nयो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥४॥\nयं त्वा॒ होता॑रं॒ मन॑सा॒भि सं॑वि॒दुस्त्रयो॑दश भौव॒नाः पञ्च॑ मान॒वाः ।\nव॒र्चो॒धसे॑ य॒शसे॑ सू॒नृता॑वते॒ तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥५॥\nउ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।\nवै॒श्वा॒न॒रज्ये॑ष्ठेभ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥६॥\nदिवं॑ पृथि॒वीमन्व॒न्तरि॑क्षं॒ ये वि॒द्युत॑मनुसं॒चर॑न्ति ।\nये दि॒क्ष्व॑१न्तर्ये वाते॑ अ॒न्तस्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥७॥\nहिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्।\nविश्वा॑न् दे॒वानङ्गि॑रसो हवामह इ॒मं क्रव्यादं॑ शमयन्त्व॒ग्निम्॥८॥\nशा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः ।\nअथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम्॥९॥\nये पर्व॑ताः॒ सोम॑पृष्ठा॒ आप॑ उत्तान॒शीव॑रीः ।\nवातः॑ प॒र्जन्य॒ आद॒ग्निस्ते क्र॒व्याद॑मशीशमन्॥१०॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 22,
"text": "वर्चः प्राप्तिः।\n१-६ वसिष्ठः। वर्चः, बृहस्पतिः, विश्वे देवाः। अनुष्टुप्, १ विराट् त्रिष्टुप्,\n३ पञ्चपदा परानुष्टुप् विराडतिजगती, ४ त्र्यवसाना षट् पदा जगती।\nह॒स्ति॒व॒र्च॒सं प्र॑थतां बृ॒हद् यशो॒ अदि॑त्या॒ यत् त॒न्वः संब॒भूव॑ ।\nतत् सर्वे॒ सम॑दु॒र्मह्य॑मे॒तद् विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥१॥\nमि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततु । दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥२॥\nयेन॑ ह॒स्ती वर्च॑सा संब॒भूव॒ येन॒ राजा॑ मनु॒ष्येऽष्व॒प्स्व॑१न्तः ।\nयेन॑ दे॒वा दे॒वता॒मग्र आय॒न् तेन॒ माम॒द्य वर्च॒साग्ने॑ वर्च॒स्विनं॑ कृणु ॥३॥\nयत् ते॒ वर्चो॑ जातवेदो बृ॒हद् भ॑व॒त्याहु॑तेः ।\nयाव॒त् सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑ ।\nताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥४॥\nयाव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त् समश्नु॒ते।\nताव॑त् स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम्॥५॥\nहस्ती मृ॒गाणां॑ सु॒षदा॑मति॒ष्ठावा॑न् ब॒भूव॒ हि।\nतस्य॒ भगे॑न॒ वर्च॑सा॒भि षि॑ञ्चामि॒ माम॒हम्॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 23,
"text": "वीर-प्रसूतिः।\n१-६ ब्रह्मा। चन्द्रमा, योनिः, द्यावापृथिवी। अनुष्टुप्, ५ उपरिष्टाद् भुरिग्बृहती, ६ स्कंधोग्रीवी बृहती।\nयेन॑ वे॒हद् ब॒भूवि॑थ ना॒शया॑म॒सि तत् त्वत्।\nइ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ॥१॥\nआ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न् बाण॑ इवेषु॒धिम्।\nआ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥२॥\nपुमां॑सं पु॒त्रं ज॑नय॒ तं पुमा॒ननु॑ जायताम्।\nभवा॑सि पु॒त्राणां॑ मा॒ता जा॒तानां॑ ज॒नया॑श्च॒ यान्॥३॥\nयानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च ।\nतैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ॥४॥\nकृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते ।\nवि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥५॥\nयासां॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ।\nतास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 24,
"text": "समृद्घि-प्राप्तिः।\n१-७ भृगुः। वनस्पतिः. प्रजापतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः।\nपय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।\nअथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥१॥\nवेदा॒हं पय॑स्वन्तं च॒का॑र धा॒न्यं ऽ ब॒हु।\nसं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे॥२॥\nइ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑ ।\nवृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं समा॑वहान्॥३॥\nउदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्।\nए॒वास्माके॒दं धा॒न्यं ऽ स॒हस्र॑धार॒मक्षि॑तम्॥४॥\nशत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र ।\nकृ॒तस्य॑ का॒र्यऽस्य चे॒ह स्फा॒तिं स॒माव॑ह ॥५॥\nति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः ।\nतासां॒ या स्फा॑ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ॥६॥\nउ॒पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते ।\nतावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम्॥७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 25,
"text": "कामस्य इषुः।\n१-६ भृगुः। मित्रावरुणौ, कामेषुः। अनुष्टुप्।\nउ॒त्तु॒दस्त्वोत् तु॑दतु॒ मा धृ॑थाः॒ शय॑ने॒ स्वे।\nइषुः॒ काम॑स्य॒ या भी॒मा तया॑ विध्यामि त्वा हृ॒दि॥१॥\nआ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्।\nतां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि॥२॥\nया प्ली॒हानं॑ शो॒षय॑ति॒ काम॒स्येषुः॒ सुसं॑नता ।\nप्रा॒चीन॑पक्षा॒ व्योऽषा॒ तया॑ विध्यामि त्वा हृ॒दि॥३॥\nशु॒चा वि॒द्धा व्योऽषया॒ शुष्का॑स्या॒भि स॑र्प मा ।\nमृ॒दुर्निम॑न्युः॒ केव॑ली प्रियवा॒दिन्यनु॑व्रता ॥४॥\nआजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः ।\nयथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥५॥\nव्यऽस्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्।\nअथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 26,
"text": "दिक्षु आत्मरक्षा।\n१-६ अथर्वा। रुद्रः, दिशः, १ साग्नयो हेतवः, २ सकामा आविष्यवः, ३ वैराजः, ४ सवाताः, प्राविध्यन्तः, ५ सौषधिका निलिम्पा,\n६ बृहस्पतियुता अवस्वन्तः। त्रिष्टुप्, २, ५, ६ जगती, ३, ४ भुरिक्, १-६ पञ्चपदा विपरीतपादलक्ष्मा।\nये॒३स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरिष॑वः ।\nते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥१॥\nये॒३स्यां स्थ दक्षि॑णायां दि॒श्यऽ वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः ।\nते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥२॥\nये॒३स्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः ।\nते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॒ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥३॥\nये॒३स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः ।\nते नो॑ मृडत॒ ते नोऽधि ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥४॥\nये॒३ऽस्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः ।\nते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥५॥\nये॒३स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः ।\nते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 27,
"text": "शत्रुनिवारणम्।\n१-६ अथर्वा। दिशः, रुद्रः, १ अग्निः असितः, आदित्याः, २ इन्द्रः, तिरश्चिराजी, पितरः, ३ वरुणः पृदाकुः, अन्नं,\n४ सोमः, स्वजः, अशनिः, ५ विष्णुः, कल्माषग्रीवो वीरुधः, ६ बृहस्पतिः, श्वित्रं, वर्षम्।\n१-६ पञ्चपदा ककुम्मतीगर्भाऽष्टिः, (२ अत्यष्टिः, ५ भुरिक्)।\nप्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्याल इष॑वः ।\nतेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु ।\nयो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥१॥\nदक्षि॑णा॒ दिगिन्द्रोऽधि॑पति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः ।\nतेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु ।\nयो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥२॥\nप्र॒तीची॒ दिग् वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः ।\nतेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु ।\nयो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥३॥\nउदी॑ची॒ दिक् सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः ।\nतेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु ।\nयो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥४॥\nध्रु॒वा दिग् विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः ।\nतेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो नम॒ एभ्यो अस्तु ।\nयो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥५॥\nऊ॒र्ध्वा दिग् बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः ।\nतेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु ।\nयो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 28,
"text": "पशुपोषणम्।\n१-६ ब्रह्मा। यमिनी। अनुष्टुप्, १ अतिशक्वरीगर्भा चतुष्पदातिजगती,\n४ यवमध्या विराट् ककुप्, ५ त्रिष्टुप्, ६ विराड्गर्भा प्रस्तारपङ्क्तिः।\nएकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः ।\nयत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून् क्षि॑णाति रिफ॒ती रुश॑ती ॥१॥\nए॒षा प॒शून्त्सं क्षि॑णाति क्र॒व्याद् भू॒त्वा व्यद्व॑री ।\nउ॒तैनां॑ ब्र॒ह्मणे॑ दद्या॒त् तथा॑ स्यो॒ना शि॒वा स्या॑त्॥२॥\nशि॒वा भ॑व॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यः शि॒वा।\nशि॒वास्मै सर्व॑स्मै॒ क्षेत्रा॑य शि॒वा न॑ इ॒हैधि॑ ॥३॥\nइ॒ह पुष्टि॑रि॒ह रस॑ इ॒ह स॒हस्र॑सातमा भव । प॒शून् य॑मिनि पोषय ॥४॥\nयत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व॑१ स्वायाः॑ ।\nतं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त् पुरु॑षान् प॒शूंश्च॑ ॥५॥\nयत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुतां॒ यत्र॑ लो॒कः ।\nतं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त् पुरु॑षान् प॒शूंश्च॑ ॥६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 29,
"text": "अविः।\n१-८ उद्दालकः। शितिपाद् अविः, ७ कामः, ८ भूमिः। अनुष्टुप्, १, ३ पथ्यापङ्क्तिः,\n७ त्र्यवसाना षट्पदा उपरिष्टा द्दैवी बृहती ककुम्मतीगर्भा विराड् जगती, ८ उपरिष्टाद् बृहती।\nयद् राजा॑नो वि॒भज॑न्त इष्टापू॒र्तस्य॑ षोड॒शं य॒मस्या॒मी स॑भा॒सदः॑ ।\nअवि॒स्तस्मा॒त् प्र मु॑ञ्चति द॒त्तः शि॑ति॒पात् स्व॒धा॥१॥\nसर्वा॒न् कामा॑न् पूरयत्या॒भव॑न् प्र॒भव॒न् भव॑न्।\nआ॒कू॒ति॒प्रोऽवि॑र्द॒त्तः शि॑ति॒पान्नोप॑ दस्यति ॥२॥\nयो ददा॑ति शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्।\nस नाक॑म॒भ्यारो॑हति॒ यत्र॑ शु॒ल्को न क्रि॒यते॑ अब॒लेन॒ बली॑यसे ॥३॥\nपञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्।\nप्र॒दा॒तोप॑ जीवति पितॄ॒णां लो॒केऽक्षि॑तम्॥४॥\nपञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्।\nप्र॒दा॒तोप॑ जीवति सूर्यामा॒सयो॒रक्षि॑तम्॥५॥\nइ॑रेव नो॑प दस्यति समुद्र॑इव प॑यो मह॑त्।\nदेवउ॑सवासि॑नाविव शितिपा॑न्नो॑प दस्यति ॥६॥\nक इ॒दं कस्मा॑ अदा॒त् कामः॒ कामा॑यादात्।\nकामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामः॑ समु॒द्रमा वि॑वेश ।\nकामे॑न त्वा॒ प्रति॑ गृह्णामि॒ कामै॒तत् ते॑ ॥७॥\nभूमि॑ष्ट्वा॒ प्रति॑ गृह्णात्व॒न्तरि॑क्षमि॒दं म॒हत्।\nमाहं प्रा॒णेन॒ मात्मना॒ मा प्र॒जया॑ प्रति॒गृह्य॒ वि रा॑धिषि ॥८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 30,
"text": "सांमनस्यम्।\n१-७ अथर्वा। चन्द्रमाः, सांमनस्यम्। अनुष्टुप्, ५ विराड् जगती, ६ प्रस्तारपङ्क्तिः, ७ त्रिष्टुप्।\nसहृ॑दयं सांमन॒स्यमवि॑द्वेषं कृणोमि वः ।\nअ॒न्यो अ॒न्यम॒भि ह॑र्यत व॒त्सं जा॒तमि॑वा॒घ्न्या॥१॥\nअनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः ।\nजा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम्॥२॥\nमा भ्राता॒ भ्रात॑रं द्विक्ष॒न्मा स्वसा॑रमु॒त स्वसा॑ ।\nस॒म्यञ्चः॒ सव्र॑ता भू॒त्वा वाचं॑ वदत भ॒द्रया॑ ॥३॥\nयेन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः ।\nतत् कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ॥४॥\nज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः ।\nअ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न् वः॒ संम॑नसस्कृणोमि ॥५॥\nस॒मा॒नी प्र॒पा स॒ह वो॑ऽन्नभा॒गः स॑मा॒ने योक्त्रे॑ स॒ह वो॑ युनज्मि ।\nस॒म्यञ्चो॒ऽग्निं स॑पर्यता॒रा नाभि॑मिवा॒भितः॑ ॥६॥\nस॒ध्री॒चीना॑न् वः संम॑नसस्कृणो॒म्ये॑क॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्।\nदे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥७॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 3,
"sukta": 31,
"text": "यक्ष्मनाशनम्\n१-११ ब्रह्मा। पाप्महा, १ अग्निः, २ शक्रः, ३ पशवः, ४ द्यावापृथिवी, ५ त्वष्टा, ६ अग्निः, इन्द्रः,\n७ देवाः, सूर्यः, ८-१० आयुः, ११ पर्जन्यः। अनुष्टुप्, ४ भुरिक् ५ विराट् प्रस्तारपङ्क्तिः।\nवि दे॒वा ज॒रसा॑वृत॒न् वि त्वम॑ग्ने॒ अरा॑त्या ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥१॥\nव्यार्त्या॒ पव॑मानो॒ वि श॒क्रः पा॑पकृ॒त्यया॑ ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥२॥\nवि ग्रा॒म्याः प॒शव॑ आर॒ण्यैर्व्याऽप॒स्तृष्ण॑यासरन्।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥३॥\nवी॒३मे द्यावा॑पृथि॒वी इ॒तो वि पन्था॑नो॒ दिशं॑दिशम्।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥४॥\nत्वष्टा॑ दुहि॒त्रे व॑ह॒तुं यु॑न॒क्तीती॒दं विश्वं॒ भुव॑नं॒ वि या॑ति ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥५॥\nअ॒ग्निः प्रा॒णान्त्सं द॑धाति च॒न्द्रः प्रा॒णेन॒ संहि॑तः ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥६॥\nप्रा॒णेन॑ वि॒श्वतो॑वीर्यं दे॒वाः सूर्यं॒ समै॑रयन्।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥७॥\nआयु॑ष्मतामायु॒ष्कृतां॑ प्रा॒णेन॑ जीव॒ मा मृ॑थाः ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥८॥\nप्रा॒णेन॑ प्राण॒तां प्राणे॒हैव भ॑व॒ मा मृ॑थाः ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥९॥\nउदायु॑षा॒ समायु॒षोदोष॑धीनां॒ रसे॑न ।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥१०॥\nआप॒र्जन्य॑स्य वृ॒ष्ट्योद॑स्थामा॒मृता॑ व॒यम्।\nव्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥११॥\n"
}
]