-
Notifications
You must be signed in to change notification settings - Fork 35
Expand file tree
/
Copy pathatharvaveda_kaanda_9.json
More file actions
72 lines (72 loc) · 99.8 KB
/
atharvaveda_kaanda_9.json
File metadata and controls
72 lines (72 loc) · 99.8 KB
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
[
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 1,
"text": "मधुविद्या।\n१-२४ अथर्वा। मधु, अश्विनौ। त्रिष्टुप्, २ त्रिष्टुब्गर्भा पङ्क्तिः, ३ परानुष्टुप्,\n६ यवमध्या अतिशक्वरीगर्भा महाबृहती, ७ यवमध्या अतिजागतर्भा महाबृहती,\n८ बृहतीगर्भा संस्तारपङ्क्तिः, ९ पराबृहती प्रस्तारपङ्क्तिः, १० परोष्णिक्पङ्क्तिः,\n११-१३, १५-१६, १८-१९ अनुष्टुप्, १४ पुर उष्णिक्, १७ उपरिष्टाद्विराड् बृहती, २० भुरिग्विष्टारपङ्क्तिः,\n२१ एकावसाना द्विपदार्च्यनुष्टुप्, २२ त्रिपदा ब्राह्मी पुर उष्णिक्, २३ द्विपदा आर्ची पङ्क्तिः,\n२४ त्र्यवसाना षट् पदाष्टिः।\nदि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात् समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे।\nतां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ॥१॥\nम॒हत् पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः ।\nयत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत् प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम्॥२॥\nपश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ् नरो॑ बहु॒धा मीमां॑समानाः ।\nअ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥३॥\nमा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑ ।\nहिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान् गर्भ॑श्चरति॒ मर्त्ये॑षु ॥४॥\nमधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद् वि॒श्वरू॑पः ।\nतं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥५॥\nकस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः ।\nब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन् मदेत ॥६॥\nस तौ प्र वे॑द॒ स उ॒ तौ चि॑केत॒ याव॑स्याः॒ स्तनौ॑ स॒हस्र॑धारा॒वक्षि॑तौ ।\nऊर्जं॑ दुहाते॒ अन॑पस्फुरन्तौ ॥७॥\nहि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्।\nत्रीन् घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥८॥\nयामापी॑नामुप॒सीद॒न्त्यापः॑ शाक्व॒रा वृ॑ष॒भा ये स्व॒राजः॑ ।\nते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒द्विदे॒ काम॒मूर्ज॒मापः॑ ॥९॥\nस्त॒न॒यि॒त्नुस्ते॒ वाक् प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑ ।\nअ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुतामु॒ग्रा न॒प्तिः ॥१०॥\nयथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॒र्भव॑ति प्रि॒यः ।\nए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम्॥११॥\nयथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भव॑ति प्रि॒यः ।\nए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम्॥१२॥\nयथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भव॑ति प्रि॒यः ।\nए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम्॥१३॥\nमधु॑ जनिषीय॒ मधु॑ वंसिषीय ।\nपय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥१४॥\nसं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।\nवि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् स॒ह ऋषि॑भिः ॥१५॥\nयथा॒ मधु॑ मधु॒कृतः॑ सं॒भर॑न्ति॒ मधा॒वधि॑ ।\nए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम्॥१६॥\nयथा॒ मक्षाः॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑ ।\nए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम्॥१७॥\nयद् गि॒रिषु॒ पर्व॑तेषु॒ गोष्वश्वे॑षु॒ यन्मधु॑ ।\nसुरा॑यां सि॒च्यमा॑नायां॒ यत् तत्र॒ मधु॒ तन्मयि॑ ॥१८॥\nअश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती ।\nयथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥१९॥\nस्त॒न॒यि॒त्नुस्ते॒ वाक् प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्यां॑ दि॒वि।\nतां प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपर्ति ॥२०॥\nपृ॒थि॒वी द॒ण्डो॒३न्तरि॑क्षं॒ गर्भो॒ द्यौः कशा॑ वि॒द्युत् प्र॑क॒शो हि॑र॒ण्ययो॑ बि॒न्दुः ॥२१॥\nयो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान् भवति ।\nब्रा॒ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम्॥२२॥\nमधु॑मान् भवति॒ मधु॑मदस्याहा॒र्यंऽ भवति ।\nमधु॑मतो लो॒कान् ज॑यति॒ य ए॒वं वेद॑ ॥२३॥\nयद् वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत् प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति ।\nतस्मा॑त् प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑ ।\nअन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥२४॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 2,
"text": "कामः\n१-२५ अथर्वा। कामः। त्रिष्टुप्, ५ अतिजगती, ७, १४-१५, १७-१८, २१-२२ जगती,\n८ द्विपदा आर्षी पङ्क्तिः ११, २०, २३ भुरिक्, १२ अनुष्टुप्, १३ द्विपदार्ची अनुष्टुप्,\n१६ चतुष्पदा शक्वरीगर्भा परा जगती।\nस॒प॒त्न॒हन॑मृष॒भं घृ॒तेन॒ कामं॑ शिक्षामि ह॒विषाज्ये॑न ।\nनी॒चैः स॒पत्ना॒न् मम॑ पादय॒ त्वम॒भिष्टु॑तो मह॒ता वी॒र्येऽण ॥१॥\nयन्मे॒ मन॑सो॒ न प्रि॒यं चक्षु॑षो॒ यन्मे॒ बभ॑स्ति॒ नाभि॒नन्द॑ति ।\nतद् दु॒ष्वप्न्यं॒ प्रति॑ मुञ्चामि स॒पत्ने॒ कामं॑ स्तु॒त्वोद॒हं भि॑देयम्॥२॥\nदु॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कामाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्।\nउ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न् यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात्॥३॥\nनु॒दस्व॑ काम॒ प्र णु॑दस्व का॒माव॑र्तिं यन्तु॒ मम॒ ये स॒पत्नाः॑ ।\nतेषां॑ नु॒त्ताना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम्॥४॥\nसा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्।\nतया॑ स॒पत्ना॑न् परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान् प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥५॥\nकाम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑ ।\nअ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्नां॑छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥६॥\nअध्य॑क्षो वा॒जी मम॑ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व।\nविश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम्॥७॥\nइ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्।\nकृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व॥८॥\nइ॒न्द्रा॒ग्नी का॑म स॒रथं॒ हि भू॒त्वा नी॒चैः स॒पत्ना॒न् मम॑ पादयाथः ।\nतेषां॑ प॒न्नाना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑न्यनु॒निर्द॑ह॒ त्वम्॥९॥\nज॒हि त्वं का॑म॒ मम ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्।\nनिरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते॑ जी॑विषुः कत॒मच्च॒नाहः॑ ॥१०॥\nअव॑धी॒त् कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्।\nमह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ॥११॥\nतेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।\nन साय॑कप्रणुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम्॥१२॥\nअ॒ग्निर्यव॒ इन्द्रो॒ यवः॒ सोमो॒ यवः॑ ।\nय॒व॒यावा॑नो दे॒वा या॑वयन्त्वेनम्॥१३॥\nअस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः॑१ स्वाना॑म्।\nउ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत् स॒पत्ना॑न्॥१४॥\nच्यु॒ता चे॒यं बृ॑ह॒त्यच्यु॑ता च वि॒द्युद् बि॑भर्ति स्तनयि॒त्नूंश्च॒ सर्वा॑न्।\nउ॒द्यन्ना॑दि॒त्यो द्रवि॑णेन॒ तेज॑सा नी॒चैः स॒पत्ना॑न् नुदतां मे॒ सह॑स्वान्॥१५॥\nयत् ते काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्भु ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ध्यंऽ कृ॒तम्।\nतेन॑ स॒पत्ना॒न् परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान् प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥१६॥\nयेन॑ दे॒वा असु॑रा॒न् प्राणु॑दन्त॒ येनेन्द्रो॒ दस्यू॑नध॒मं तमो॑ नि॒नाय॑ ।\nतेन॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात् प्र णु॑दस्व दू॒रम्॥१७॥\nयथा॑ दे॒वा असु॑रा॒न् प्राणु॑दन्त॒ यथेन्द्रो॒ दस्यू॑नध॒मं तमो॑ बबा॒धे।\nतथा॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात् णु॑दस्व दू॒रम्॥१८॥\nकामो॑ जज्ञे प्रथ॒मो नैनं॑ दे॒वा आ॑पुः पि॒तरो॒ न मर्त्याः॑ ।\nतत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥१९॥\nयाव॑ती द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः ।\nतत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥२०॥\nयाव॑ती॒र्दिशः॑ प्र॒दिशो॒ विषू॑ची॒र्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः ।\nतत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥२१॥\nयाव॑ती॒र्भृङ्गा॑ ज॒त्वःऽ कु॒रूर॑वो॒ याव॑ती॒र्वघा॑ वृक्षस॒र्प्योऽ बभू॒वुः ।\nतत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥२२॥\nज्याया॑न् निमिष॒तोऽसि॒ तिष्ठ॑तो॒ ज्याया॑न्त्समु॒द्राद॑सि काम मन्यो ।\nतत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥२३॥\nन वै वात॑श्च॒न काम॑माप्नोति॒ नाग्निः सूर्यो॒ नोत च॒न्द्रमाः॑ ।\nतत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥२४॥\nयास्ते॑ शि॒वास्त॒न्वःऽ काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद् वृ॑णी॒षे।\nताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ॥२५॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 3,
"text": "शाला।\n१-३१ भृग्वङ्गिराः। शाला। अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ परोष्णिक्, १५ त्र्यवसाना पञ्चपदातिशक्वरी,\n१७ प्रस्तारपङ्क्तिः, २१ आस्तारपङ्क्तिः २५-३१ त्रिपदा प्राजापत्या बृहती, २६ साम्नी त्रिष्टुप्,\n२७-३० प्रतिष्ठानाम गायत्री, (२५-३१) एकावसाना त्रिपदा।\nउ॒प॒मितां॑ प्रति॒मिता॒मथो॑ परि॒मिता॑मु॒त।\nशाला॑या वि॒श्ववा॑राया न॒द्धानि॒ वि चृ॑तामसि ॥१॥\nयत् ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः ।\nबृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत्॥२॥\nआ य॑याम॒ सं ब॑बर्ह ग्र॒न्थींश्च॑कार ते दृ॒ढान्।\nपरूं॑षि वि॒द्वांछस्ते॒वेन्द्रे॑ण॒ वि चृ॑तामसि ॥३॥\nवं॒शानां॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च ।\nप॒क्षाणां॑ विश्ववारे ते न॒द्धानि॒ वि चृ॑तामसि ॥४॥\nसं॒दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च ।\nइ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ॥५॥\nयानि॑ ते॒ऽन्तः शि॒क्याऽन्याबे॒धू र॒ण्याऽय॒ कम्।\nप्र ते॒ तानि॑ चृतामसि शि॒वा मान॑स्य॒ पत्नि॑ न॒ उद्धि॑ता त॒न्वेऽ भव ॥६॥\nह॒वि॒र्धान॑मग्नि॒शालं॒ पत्नी॑नां॒ सद॑नं॒ सदः॑ ।\nसदो॑ दे॒वाना॑मसि देवि शाले ॥७॥\nअक्षु॑मोप॒शं वित॑तं सहस्रा॒क्षं वि॑षू॒वति॑ ।\nअव॑नद्धम॒भिहि॑तं॒ ब्रह्म॑णा॒ वि चृ॑तामसि ॥८॥\nयस्त्वा॑ शाले प्रतिगृ॒ह्णाति॒ येन॒ चासि॑ मि॒ता त्वम्।\nउ॒भौ मा॑नस्य पत्नि॒ तौ जीव॑तां ज॒रद॑ष्टी ॥९॥\nअ॒मुत्रै॑न॒मा ग॑च्छताद् दृ॒ढा न॒द्धा परि॑ष्कृता ।\nयस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ॥१०॥\nयस्त्वा॑ शाले निमि॒माय॑ संज॒भार॒ वन॒स्पती॑न्।\nप्र॒जायै॑ चक्रे त्वा शाले परमे॒ष्ठी प्र॒जाप॑तिः ॥११॥\nनम॒स्तस्मै॒ नमो॑ दा॒त्रे शाला॑पतये च कृण्मः ।\nनमो॒ऽग्नये॑ प्र॒चर॑ते॒ पुरु॑षाय च ते॒ नमः॑ ॥१२॥\nगोभ्यो॒ अश्वे॑भ्यो॒ नमो॒ यच्छाला॑यां वि॒जाय॑ते ।\nविजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥१३॥\nअ॒ग्निम॒न्तश्छा॑दयसि॒ पुरु॑षान् प॒शुभिः॑ स॒ह।\nविजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥१४॥\nअ॒न्त॒रा द्यां च॑ पृथि॒वीं च॒ यद् व्यच॒स्तेन॒ शालां॒ प्रति॑ गृह्णामि त इ॒माम्।\nयद॒न्तरि॑क्षं॒ रज॑सो वि॒मानं॒ तत् कृ॑ण्वे॒ऽहमु॒दरं॑ शेव॒धिभ्यः॑ ।\nतेन॒ शालां॒ प्रति॑ गृह्णामि॒ तस्मै॑ ॥१५॥\nऊर्ज॑स्वती॒ पय॑स्वती पृथि॒व्यां निमि॑ता मि॒ता।\nवि॒श्वा॒न्नं बिभ्र॑ती शाले॒ मा हिं॑सीः प्रतिगृह्ण॒तः ॥१६॥\nतृणै॒रावृ॑ता पल॒दान् वसा॑ना॒ रात्री॑व॒ शाला॒ जग॑तो नि॒वेश॑नी ।\nमि॒ता पृ॑थि॒व्यां ति॑ष्ठसि ह॒स्तिनी॑व प॒द्वती॑ ॥१७॥\nइट॑स्य ते॒ वि चृ॑ता॒म्यपि॑नद्धमपोर्णु॒वन्।\nवरु॑णेन॒ समु॑ब्जितां मि॒त्रः प्रा॒तर्व्युऽब्जतु ॥१८॥\nब्रह्म॑णा॒ शालां॒ निमि॑तां क॒विभि॒र्निमि॑तां मि॒ताम्।\nइ॒न्द्रा॒ग्नी र॑क्षतां॒ शाला॑म॒मृतौ॑ सो॒म्यं सदः॑ ॥१९॥\nकु॒लायेऽधि॑ कु॒लायं॒ कोशे॒ कोशः॒ समु॑ब्जितः ।\nतत्र॒ मर्तो॒ वि जा॑यते॒ यस्मा॒द् विश्वं॑ प्र॒जाय॑ते ॥२०॥\nया द्विप॑क्षा॒ चतु॑ष्पक्षा॒ षट् प॑क्षा॒ या नि॑मी॒यते॑ ।\nअ॒ष्टाप॑क्षां॒ दश॑पक्षां॒ शालां॒ मान॑स्य॒ पत्नी॑म॒ग्निर्गर्भ॑ इ॒वा श॑ये ॥२१॥\nप्र॒तीचीं॑ त्वा प्रती॒चीनः॒ शाले॒ प्रैम्यहिं॑सतीम्।\nअ॒ग्निर्ह्य॑१न्तराप॑श्च॒र्तस्य॑ प्रथ॒मा द्वाः ॥२२॥\nइ॒मा आपः॒ प्र भ॑राम्यय॒क्ष्मा य॑क्ष्म॒नाश॑नीः ।\nगृ॒हानुप॒ प्र सी॑दाम्य॒मृते॑न स॒हाग्निना॑ ॥२३॥\nमा नः॒ पाशं॒ प्रति॑ मुचो गु॒रुर्भा॒रो ल॒घुर्भ॑व ।\nव॒धूमि॑व त्वा शाले यत्र॒कामं॑ भरामसि ॥२४॥\nप्राच्या॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥२५॥\nदक्षि॑णाया दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥२६॥\nप्र॒तीच्या॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥२७॥\nउदी॑च्या दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥२८॥\nध्रु॒वाया॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥२९॥\nऊ॒र्ध्वाया॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥३०॥\nदि॒शोदि॑शः॒ शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येऽभ्यः ॥३१॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 4,
"text": "ऋषभः\n१-२४ ब्रह्मा। ऋषभः। त्रिष्टुप्, ८ भुरिक्, ६, १०, २४ जगती, ११-१७, १९-२०, २३ अनुष्टुप्,\n१८ उपरिष्टाद्बृहती, २१ आस्तारपङ्क्तिः।\nसा॒ह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न् विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्।\nभ॒द्रं दा॒त्रे यज॑मानाय॒ शीक्ष॑न् बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न्॥१॥\nअ॒पां यो अग्ने॑ प्रति॒मा ब॒भूव॑ प्र॒भूः सर्व॑स्मै पृथि॒वीव॑ दे॒वी।\nपि॒ता व॒त्सानां॒ पति॑र॒घ्न्यानां॑ साह॒स्रे पोषे॒ अपि॑ नः कृणोतु ॥२॥\nपुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न् वसोः॒ कब॑न्धमृष॒भो बि॑भर्ति ।\nतमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ॥३॥\nपि॒ता व॒त्सानां॒ पति॑र॒घ्न्याना॒मथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम्।\nव॒त्सो ज॒रायु॑ प्रति॒धुक् पी॒यूष॑ आ॒मिक्षा॑ घृ॒तं तद् व॑स्य॒ रेतः॑ ॥४॥\nदे॒वानां॑ भा॒ग उ॑पना॒ह ए॒षो॒३पां रस॒ ओष॑धीनां घृ॒तस्य॑ ।\nसोम॑स्य भ॒क्षम॑वृणीत श॒क्रो बृ॒हन्नद्रि॑रभव॒द् यच्छरी॑रम्॥५॥\nसोमे॑न पू॒र्णं क॒लशं॑ बिभर्षि॒ त्वष्टा॑ रु॒पाणां॑ जनि॒ता प॑शू॒नाम्।\nशि॒वास्ते॑ सन्तु प्रज॒न्वऽ इ॒ह या इ॒मा न्य॑स्मभ्यं॑ स्वधिते यच्छ॒ या अ॒मूः ॥६॥\nआज्यं बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः ।\nइन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान् दे॑वाः शि॒व ऐतु॑ द॒त्तः ॥७॥\nइन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्।\nबृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥८॥\nदैवी॒र्विशः॒ पय॑स्वा॒ना त॑नोषि॒ त्वामिन्द्रं॒ त्वां सर॑स्वन्तमाहुः ।\nस॒हस्रं॒ स एक॑मुखा ददाति॒ यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥९॥\nबृह॒स्पतिः॑ सवि॒ता ते॒ वयो॑ दधौ॒ त्वष्टु॑र्वा॒योः पर्या॒त्मा त॒ आभृ॑तः ।\nअ॒न्तरि॑क्षे॒ मन॑सा त्वा जुहोमि ब॒र्हिष्टे॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥१०॥\nय इन्द्र॑ इव दे॒वेषु॒ गोष्वेति॑ वि॒वाव॑दत्।\nतस्य॑ ऋष॒भस्याङ्गा॑नि ब्र॒ह्मा सं स्तौ॑तु भ॒द्रया॑ ॥११॥\nपा॒र्श्वे आ॑स्ता॒मनु॑मत्या॒ भग॑स्यास्तामनू॒वृजौ॑ ।\nअ॒ष्ठी॒वन्ता॑वब्रवीन्मि॒त्रो ममै॒तौ केव॑ला॒विति॑ ॥१२॥\nभ॒सदा॑सीदादि॒त्यानां॒ श्रोणी॑ आस्तां॒ बृह॒स्पतेः॑ ।\nपुच्छं॒ वात॑स्य दे॒वस्य॒ तेन॑ धूनो॒त्योष॑धीः ॥१३॥\nगुदा॑ आसन्त्सिनीवा॒ल्याः सू॒र्याया॒स्त्वच॑मब्रुवन्।\nउ॒त्था॒तुर॑ब्रुवन् प॒द ऋ॑ष॒भं यदक॑ल्पयन्॥१४॥\nक्रो॒ड आ॑सीज्जामिशं॒सस्य॒ सोम॑स्य क॒लशो॑ धृ॒तः ।\nदे॒वाः सं॒गत्य॒ यत् सर्व॑ ऋष॒भं व्यक॑ल्पयन्॥१५॥\nते कुष्ठि॑काः स॒रमा॑यै कू॒र्मेभ्यो॑ अदधुः श॒फान्।\nऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन्॥१६॥\nशृङ्गा॑भ्यां॒ रक्ष॑ ऋष॒त्यव॑र्तिं हन्ति॒ चक्षु॑षा ।\nशृ॒णोति॑ भ॒द्रं कर्णा॑भ्यां॒ गवां॒ यः पति॑र॒घ्न्यः ॥१७॥\nश॒त॒याजं॒ स य॑जते॒ नैनं॑ दुन्वन्त्य॒ग्नयः॑ ।\nजिन्व॑न्ति॒ विश्वे॒ तं दे॒वा यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥१८॥\nब्रा॒ह्म॒णेभ्य॑ ऋष॒भं द॒त्त्वा वरी॑यः कृणुते॒ मनः॑ ।\nपुष्टिं॒ सो अ॒घ्न्यानां॒ स्वे गो॒ष्ठेऽव॑ पश्यते ॥१९॥\nगावः॑ सन्तु प्र॒जाः स॒न्त्वथो॑ अस्तु तनूब॒लम्।\nतत् सर्व॒मनु॑ मन्यन्तां दे॒वा ऋ॑षभदा॒यिने॑ ॥२०॥\nअ॒यं पिपा॑न॒ इन्द्र॒ इद् र॒यिं द॑धातु चेत॒नीम्।\nअ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ॥२१॥\nपि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा ऐ॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्।\nआयु॑र॒स्मभ्यं॒ दध॑त् प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम्॥२२॥\nउपे॒होप॑पर्चना॒स्मिन् गो॒ष्ठ उप॑ पृञ्च नः ।\nउप॑ ऋष॒भस्य॒ यद् रेत॒ उपे॑न्द्र॒ तव॑ वी॒र्यऽम्॥२३॥\nए॒तं वो॒ युवा॑नं॒ प्रति॑ दध्मो॒ अत्र॒ तेन॒ क्रीड॑न्तीश्चरत॒ वशाँ॒ अनु॑ ।\nमा नो॑ हासिष्ट ज॒नुषा॑ सुभागा रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम्॥२४॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 5,
"text": "पञ्चौदनो अजः।\n१-३८ भृगुः। पञ्चौदनोऽजः, मन्त्रोक्ताः। त्रिष्टुप्, ३ चतुष्पदा पुरोतिशक्वरी जगती, ४, १० जगती,\n१४, १७, २७-३० अनुष्टुप् ( ३० ककुम्मती), १६ त्रिपदानुष्टुप्, १८, ३७ त्रिपदा विराड् गायत्री,\n२३ पुर उष्णिक्, २४ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्विराड् जगती, २०-२२, २६ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्,\n३१ सप्तपदाष्टिः, ३२-३५ दशपदा प्रकृतिः, ३६ दशपदाऽऽकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप्।\nआ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गच्छतु प्रजा॒नन्।\nती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म्॥१॥\nइन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन् य॒ज्ञे यज॑मानाय सू॒रिम्।\nये नो॑ द्वि॒षन्त्यनु तान् र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ॥२॥\nप्र प॒दोऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन्।\nती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म्॥३॥\nअनु॑च्छ्य श्या॒मेन॒ त्वच॑मे॒तां वि॑शस्तर्यथाप॒र्व॑१सिना॒ माभि मं॑स्थाः ।\nमाभि द्रु॑हः परु॒शः क॑ल्पयैनं तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यैनम्॥४॥\nऋ॒चा कु॒म्भीमध्य॒ग्नौ श्र॑या॒म्या सि॑ञ्चोद॒कमव॑ धेह्येनम्।\nप॒र्याध॑त्ता॒ग्निना॑ शमितारः शृ॒तो ग॑च्छतु सु॒कृतां॒ यत्र॑ लो॒कः ॥५॥\nउत् क्रा॒मातः॒ परि॒ चेदत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्।\nअ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम्॥६॥\nअ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः ।\nअ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥७॥\nपञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि ।\nई॒जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ॥८॥\nअजा रो॑ह सु॒कृतां॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तोऽति॑ दु॒र्गान्ये॑षः ।\nपञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नः॒ स दा॒तारं॒ तृप्त्या॑ तर्पयाति ॥९॥\nअ॒जस्त्रि॑ना॒के त्रि॑दि॒वे त्रि॑पृ॒ष्ठे नाक॑स्य पृ॒ष्ठे द॑दि॒वांसं॑ दधाति ।\nपञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒स्येका॑ ॥१०॥\nए॒तद् वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति ।\nअ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥११॥\nई॒जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न् पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति ।\nस व्याऽप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒३ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥१२॥\nअ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒द् विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्।\nइ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद् दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ॥१३॥\nअ॒मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्।\nतथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥१४॥\nए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑ ।\nस्त॒भा॒न पृ॑थि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठेऽधि॑ स॒प्तर॑श्मौ ॥१५॥\nअ॒जो॒३स्यज॑ स्वर्गोऽसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्।\nतं लो॒कं पुण्यं॒ प्र ज्ञे॑षम्॥१६॥\nयेना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्।\nतेने॒मं य॒ज्ञं नो॑ वह॒ स्वऽर्दे॒वेषु॒ गन्त॑वे ॥१७॥\nअ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः ।\nतेन॑ लो॒कान्त्सूर्य॑वतो जयेम ॥१८॥\nयं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑ ।\nसर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम्॥१९॥\nअ॒जो वा इ॒दमग्ने॒ व्यऽक्रमत॒ तस्योर॑ इ॒यम॑भव॒द् द्यौः पृ॒ष्ठम्।\nअ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी॥२०॥\nस॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट् शिरः॑ ।\nए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ॥२१॥\nअप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्धे ।\nयो॒३ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२२॥\nनास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्।\nसर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत्॥२३॥\nइ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति ।\nइषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॒३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२४॥\nपञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति ।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२५॥\nपञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वेऽ भवन्ति ।\nस्व॒र्गं लो॒कम॑श्नुते॒ यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२६॥\nया पूर्वं॒ पतिं॑ वि॒त्त्वाथा॒न्यं वि॒न्दतेऽप॑रम्।\nपञ्चौ॑दनं च॒ ताव॒जं ददा॑तो॒ न वि यो॑षतः ॥२७॥\nस॒मा॒नलो॑को भवति पुन॒र्भुवाप॑रः॒ पतिः॑ ।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२८॥\nअ॒नु॒पूर्व॒व॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्।\nवासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम्॥२९॥\nआ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्।\nजा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥३०॥\nयो वै नैदा॑घं॒ नाम॒र्तुं वेद॑ । ए॒ष वै नैदा॑घो॒ नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।\nनिरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑ ।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥३१॥\nयो वै कु॒र्वन्तं॒ नाम॒र्तुं वेद॑ । कु॒र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।\nए॒ष वै कु॒र्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।\nनिरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ॥३२॥\nयो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑ । सं॒य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।\nए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।\nनिरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥३३॥\nयो वै पि॒न्वन्तं॒ नाम॒र्तुं वेद॑ ।\nपि॒न्व॒तींपि॑न्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।\nए॒ष वै पि॒न्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।\nनिरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥३४॥\nयो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑ ।\nउ॒द्य॒तीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।\nए॒ष वा उ॒द्यन्न्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।\nनिरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं ददा॑ति ॥३५॥\nयो वा अ॑भि॒भुवं॒ नाम॒र्तुं वेद॑ ।\nअ॒भि॒भव॑न्तीमभिभवन्तीमे॒वाप्रि॑यस्य भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।\nए॒ष वा अ॑भि॒भूर्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।\nनिरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना ।\nयो॒३जं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ॥३६॥\nअ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्।\nसर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृह्णन्तु त ए॒तम्॥३७॥\nतास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ताभ्य॒ आज्यं॒ ह॒विरि॒दं जु॑होमि ॥३८॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 6,
"text": "अतिथि-सत्कारः।\n१-६२ (षट् पर्यायाः) ब्रह्माः। अतिथिः, विद्या।\n(१)\n१-१७, नागीनाम त्रिपदा गायत्री, २ त्रिपदाऽर्षी गायत्री, ३,७ साम्नी त्रिष्टुप्, ४,९ आर्च्यनुष्टुप्,\n५ आसुरी गायत्री, ६ त्रिपदा साम्नी जगती, ८ याजुषी त्रिष्टुप्, १० साम्नी भुरिग्बृहती,\n११,१४-१६ साम्न्यनुष्टुप्, १२ विराड् गायत्री, १३ साम्नि निचृत्पङ्क्तिः, १७ त्रिपदा विराड् भुरिग्गायत्री।\nयो वि॒द्याद् ब्रह्म॑ प्र॒त्यक्षं॒ परूं॑षि॒ यस्य॑ संभा॒रा ऋचो॒ यस्या॑नू॒क्यऽम्॥१॥\nसामा॑नि॒ यस्य॒ लोमा॑नि॒ यजु॒र्हृद॑यमु॒च्यते॑ परि॒स्तर॑णा॒मिद्ध॒विः ॥२॥\nयद् वा अति॑थिपति॒रति॑थीन् प्रति॒पश्य॑ति देव॒यज॑नं॒ प्रेक्ष॑ते ॥३॥\nयद॑भि॒वद॑ति दी॒क्षामुपै॑ति॒ यदु॑द॒कं याच॑त्य॒पः प्र ण॑यति ॥४॥\nया ए॒व य॒ज्ञ आपः॑ प्रणी॒यन्ते॒ ता ए॒व ताः ॥५॥\nयत् तर्प॑णमा॒हर॑न्ति॒ य ए॒वाग्नी॑षो॒मीयः॑ प॒शुर्ब॒ध्यते॒ स ए॒व सः ॥६॥\nयदा॑वस॒थान् क॒ल्पय॑न्ति सदोहविर्धा॒नान्ये॒व तत् क॑ल्पयन्ति ॥७॥\nयदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत्॥८॥\nयदु॑परिशय॒नमा॒हर॑न्ति स्व॒र्गमे॒व तेन॑ लो॒कमव॑ रुन्द्धे ॥९॥\nयत् क॑शिपूपबर्ह॒णमा॒हर॑न्ति परि॒धय॑ ए॒व ते॥१०॥\nयदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत्॥११॥\nयत् पु॒रा प॑रि॒वेषात् स्वा॒दमा॒हर॑न्ति पुरो॒डाशा॑वे॒व तौ॥१२॥\nयद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ॥१३॥\nये व्री॒हयो॒ यवा॑ निरु॒प्यन्तें॒ऽशव॑ ए॒व ते॥१४॥\nयान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते॥१५॥\nशूर्पं॑ प॒वित्रं॒ तुषा॑ ऋजी॒षाभि॒षव॑णी॒रापः॑ ॥१६॥\nस्रुग् दर्वि॒र्नेक्ष॑णमा॒यव॑नं द्रोणकल॒शाः कु॒म्भ्योऽ वाय॒व्या॒ऽनि॒ पात्रा॑णी॒यमे॒व कृ॑ष्णाजि॒नम्॥१७॥\n(२)\n१८-३० (१-१३) १ विराट् पुरस्ताद्बृहती, २, १२ साम्नी त्रिष्टुप्, ३ आसुरी अनुषटुप्, ४ साम्नी उष्णिक्,\n५,११ साम्नी बृहती (११ भुरिक्) ६ आर्च्यनुष्टुप्, ७ त्रिपदा स्वराडनुष्टुप्, ८ आसुरी गायत्री,\n९ साम्नी अनुष्टुप्, १० त्रिपदाऽर्ची त्रिष्टुप्, १३ त्रिपदाऽर्ची पङ्क्तिः (७ पञ्चपदा विराट् पुरस्ताद्बृहती, ८ साम्न्यनुष्टुप् वा)\nय॒ज॒मा॒न॒ब्रा॒ह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याऽणि॒ प्रेक्ष॑त इ॒दं भू॑या३ इ॒दा३मिति॑ ।१। १८॥\nयदाह॒ भूय॒ उद्ध॒रेति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ।२। १९॥\nउप॑ हरति ह॒वींष्या सा॑दयति ।३। २०॥\nतेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन् जु॑होति ।४। २१॥\nस्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ ।५। २२॥\nए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ।६। २३॥\nस य ए॒वं वि॒द्वान् न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ।७। २४॥\nसर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ ।८। ॥२५॥\nसर्वो॒ वा ए॒षोऽज॑ग्धपाप्मा॒ यस्यान्नं॒ नाश्नन्ति॑ ।९। २६॥\nस॒र्व॒दा वा ए॒ष यु॒क्तग्रा॑वा॒र्द्रप॑वित्रो॒ वित॑ताध्वर॒ आहृ॑तयज्ञक्रतु॒र्य उ॑पहर॑ति ।१०। २७॥\nप्रा॒जा॒प॒त्यो वा ए॒तस्य॑ य॒ज्ञो वित॑तो॒ य उ॑प॒हर॑ति ।११। २८॥\nप्र॒जाप॑ते॒र्वा ए॒ष वि॑क्र॒मान॑नु॒विक्र॑मते॒ य उ॑प॒हर॑ति ।१२। २९॥\nयोऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न् पच॑न्ति॒ स द॑क्षिणा॒ग्निः।१३ । ३०॥\n(३)\n३१-३९ (१-९) १-६, ९ त्रिपदा पिपीलिकमध्या गायत्री, ७ साम्नी बृहती, ८ पिपीलिकमध्योष्णिक्।\nइ॒ष्टं च॒ वा ए॒ष पू॒र्तं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।१। ३१॥\nपय॑श्च॒ वा ए॒ष रसं॑ च॒ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।२। ३२॥\nऊ॒र्जां च॒ वा ए॒ष स्फा॒तिं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।३। ३३॥\nप्र॒जां च॒ वा ए॒ष प॒शूंश्च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।४। ३४॥\nकी॒र्तिं च॒ वा ए॒ष यश॑श्च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।५। ३५॥\nश्रियं॑ च॒ वा ए॒ष सं॒विदं॑ च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।६। ३६॥\nए॒ष वा अति॑थि॒र्यच्छ्रोत्रि॑य॒स्तस्मा॒त् पूर्वो॒ नाश्नी॑यात् ।७। ३७॥\nअ॒शि॒ताव॒त्यति॑थावश्नीयाद् य॒ज्ञस्य॑ सात्म॒त्वाय॑ य॒ज्ञस्यावि॑च्छेदाय॒ तद् व्र॒त॑म् ।८। ३८॥\nए॒तद् वा उ॒ स्वादी॑यो॒ यद॑धिग॒वं क्षी॒रं वा॑ मां॒सं वा॒ तदे॒व नाश्नी॑यात् ।९। ३९॥\n(४)\n४०-४४ (१-१०) १-४ प्राजापत्यानुष्टुप्, २-५ त्रिपदा गायत्री, ९ भुरिक्, १० चतुष्पदा प्रस्तारपङ्क्तिः।\nस य ए॒वं वि॒द्वान् क्षी॒रमु॑प॒सिच्यो॑प॒हर॑ति ।१।\nयाव॑दग्निष्टो॒मेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देने॒नाव॑ रुन्धे ।२। ४०॥\nस य ए॒वं वि॒द्वान्त्स॒र्पिरु॑प॒सिच्यो॑प॒हर॑ति ।३।\nयाव॑दतिरा॒त्रेणे॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देने॒नाव॑ रुन्धे ।४। ४१॥\nस य ए॒वं वि॒द्वान् मधू॑प॒सिच्यो॑प॒हर॑ति ।५।\nयाव॑त् सत्त्र॒सद्ये॑ने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देने॒नाव॑ रुन्धे ।६। ४२॥\nस य ए॒वं वि॒द्वान् मां॒समु॑प॒सिच्यो॑प॒हर॑ति ।७।\nयाव॑द् द्वादशा॒हेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देनेनाव॑ रुन्धे ।८। ४३॥\nस य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति ।९।\nप्र॒जानां॑ प्र॒जन॑नाय गच्छति प्रति॒ष्ठां प्रि॒यः प्र॒जानां॑ भवति॒ य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति ।१०। ४४॥\n(५)\n४५-४८ (१-१०) १ साम्नी उष्णिक्, २ पुर उष्णिक्, ३ साम्नी भुरिग्बृहती, ४ ६, ९ साम्नी अनुष्टुप्,\n५ त्रिपदा निचृद्विषमा नाम गायत्री, ७ त्रिपदा विराड् विषमा नाम गायत्री, ८ त्रिपदा विराडनुष्टुप्।\nतस्मा॑ उ॒षा हिङ्कृ॑णोति सवि॒ता प्र स्तौ॑ति ।१।\nबृह॒स्पति॑रू॒र्जयोद्गा॑यति॒ त्वष्टा॒ पुष्ट्या॒ प्रति॑ हरति॒ विश्वे॑ दे॒वा नि॒धन॑म्।२।\nनि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।३। ४५॥\nतस्मा॑ उ॒द्यन्त्सूर्यो॒ हिङ्कृ॑णोति संग॒वः प्र स्तौ॑ति ।४।\nम॒ध्यन्दि॑न॒ उद्गा॑यत्यपरा॒ह्णः प्रति॑ हरत्यस्तं॒यन् नि॒धन॑म्।\nनि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।५। ४६॥\nतस्मा॑ अ॒भ्रो भव॒न् हिङ्कृ॑णोति स्त॒नय॒न् प्र स्तौ॑ति ।६।\nवि॒द्योत॑मानः॒ प्रति॑ हरति॒ वर्ष॒न्नुद्गा॑यत्युद्गृह्णन् नि॒धन॑म्।\nनि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।७।\nअति॑थी॒न् प्रति॑ पश्यति॒ हिङ्कृ॑णोत्य॒भि व॑दति॒ प्र स्तौ॑त्युद॒कं याच॒त्युद्गा॑यति ।८। ४७॥\nउप॑ हरति॒ प्रति॑ हर॒त्युच्छि॑ष्टं नि॒धन॑म्।९।\nनि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।१०। ४८॥\n(६)\n४९-६२ (१-१४) १ आसुरी गायत्री, २ साम्नी अनुष्टुप्, ३,५ त्रिपदार्ची पङ्क्तिः, ४ एकपदा प्राजापत्या गायत्री,\n६-११ आर्ची बृहती, १२ एकपदाऽऽसुरी जगती, १३ याजुषी त्रिष्टुप्, १४ एकपदाऽऽसुरी उष्णिक्।\nयत् क्ष॒त्तारं॒ ह्वय॒त्या श्रा॑वयत्ये॒व तत् ।१। ४९॥\nयत् प्र॑तिशृ॒णोति॑ प्र॒त्याश्रा॑वयत्ये॒व तत् ।२। ५०॥\nयत् प॑रिवे॒ष्टारः॒ पात्र॑हस्ताः॒ पूर्वे॒ चाप॑रे च प्र॒पद्य॑न्ते चम॒साध्व॑र्यव ए॒व ते ।३। ५१॥\nतेषां॒ न कश्च॒नाहो॑ता ।४। ५२॥\nयद् वा अति॑थिपति॒रति॑थीन् परि॒विष्य॑ गृ॒हानु॑पो॒दैत्य॑व॒भृथ॑मे॒व तदु॒पावै॑ति ।५। ५३॥\nयत् स॑भा॒गय॑ति॒ दक्षि॑णाः सभागयति॒ यद॑नु॒तिष्ठ॑त उ॒दव॑स्यत्ये॒व तत् ।६। ५४॥\nस उप॑हूतः पृथि॒व्यां भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न् यत् पृ॑थि॒व्यां वि॒श्वरू॑पम् ।७। ५५॥\nस उप॑हूतो॒ऽन्तरि॑क्षे भक्षय॒त्युप॑हूत॒स्तस्मि॒न् यद॒न्तरि॑क्षे वि॒श्वरू॑पम् ।८। ५६॥\nस उप॑हूतो दि॒वि भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न् यद् दि॒वि वि॒श्वरू॑पम् ।९। ५७॥\nस उप॑हूतो दे॒वेषु॑ भक्षय॒त्युप॑हूत॒स्तस्मिन् यद् दे॒वेषु॑ वि॒श्वरू॑पम् ।१०। ५८॥\nस उप॑हूतो लो॒केषु॑ भक्षय॒त्युप॑हूत॒स्तस्मि॒न्य यल्लो॒केषु॑ वि॒श्वरू॑पम् ।११। ५९॥\nस उप॑हूत॒ उप॑हूतः ।१२। ६०॥\nआ॒प्नोती॒मं लो॒कमा॒प्नोत्य॒मुम् ।१३। ६१॥\nज्योति॑ष्मतो लो॒कान् ज॑यति॒ य ए॒वं वेद॑ ।१४। ६२॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 7,
"text": "गौः\n१-२६ ( एकः पर्यायः) ब्रह्म। गौः। १ आर्ची बृहती, २ आर्च्युष्णिक्, ३, ५ आर्च्यनुष्टुप्,\n४, १४-१६ साम्नी बृहती, ६,८ आसुरी गायत्री, ७ त्रिपदा पिपीलिकमध्या निचृद्गायत्री,\n९, १३ साम्नी गायत्री, १० पुर उष्णिक्, ११-१२, १७, २५ साम्न्युष्णिक्, १८, २२ एकपदाऽसुरी जगती,\n१९ एकपदाऽसुरी पङ्क्तिः, २० याजुषी जगती, २१ आसुर्यनुष्टुप्, २३ एकपदाऽऽसुरी बृहती,\n२४ साम्नी भुरिग्बृहती, २६ साम्नी त्रिष्टुप्, (७, १८-१९, २२-२३ आभ्योऽतिरिक्ता द्विपदा)।\nप्र॒जाप॑तिश्च परमे॒ष्ठी च॒ शृङ्गे॒ इन्द्रः॒ शिरो॑ अ॒ग्निर्ल॒लाटं॑ य॒मः कृका॑टम्॥१॥\nसोमो॒ राजा॑ म॒स्तिष्को॒ द्यौरु॑त्तरह॒नुः पृ॑थि॒व्यऽधरह॒नुः ॥२॥\nवि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वति॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑ ॥३॥\nविश्वं॑ वा॒युः स्व॒र्गो लो॒कः कृ॑ष्ण॒द्रं वि॒धर॑णी निवे॒ष्यः ॥४॥\nश्ये॒नः क्रो॒डो॒३ऽन्तरि॑क्षं पाज॒स्यं॑१ बृह॒स्पतिः॑ क॒कुद् बृ॑ह॒तीः कीक॑साः ॥५॥\nदे॒वानां॒ पत्नीः॑ पृ॒ष्टय॑ उप॒सदः॒ पर्श॑वः ॥६॥\nमि॒त्रश्च॒ वरु॑ण॒श्चांसौ॒ त्वष्टा॑ चार्य॒मा च॑ दो॒षणी॑ महादे॒वो बा॒हू॥७॥\nइ॒न्द्रा॒णी भ॒सद् वा॒युः पुच्छं॒ पव॑मानो॒ बालाः॑ ॥८॥\nब्रह्म॑ च क्ष॒त्रं च॒ श्रोणी॒ बल॑मू॒रू॥९॥\nधा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फाः ॥१०॥\nचेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत्॥११॥\nक्षुत् कु॒क्षिरिरा॑ वनि॒ष्ठुः पर्व॑ताः प्ला॒शयः॑ ॥१२॥\nक्रोधो॑ वृ॒क्कौ म॒न्युरा॒ण्डौ प्र॒जा शेपः॑ ॥१३॥\nन॒दी सू॒त्री व॒र्षस्य॒ पत॑य॒ स्तना॑ स्तनयि॒त्नुरूधः॑ ॥१४॥\nवि॒श्वव्य॑चा॒स्चर्मौष॑धयो॒ लोमा॑नि॒ नक्ष॑त्राणि रू॒पम्॥१५॥\nदे॒व॒ज॒ना गुदा॑ मनु॒ष्याऽ आ॒न्त्राण्य॒त्रा उ॒दर॑म्॥१६॥\nरक्षां॑सि॒ लोहि॑तमितरज॒ना ऊब॑ध्यम्॥१७॥\nअ॒भ्रं पीबो॑ म॒ज्जा नि॒धन॑म्॥१८॥\nअ॒ग्निरासी॑न॒ उत्थि॑तो॒ऽश्विना॑ ॥१९॥\nइन्द्रः॒ प्राङ् तिष्ठ॑न् दक्षि॒णा तिष्ठ॑न् य॒मः ॥२०॥\nप्र॒त्यङ् तिष्ठ॑न् धा॒तोद॒ङ् तिष्ठ॑न्त्सवि॒ता॥२१॥\nतृणा॑नि प्राप्तः॒ सोमो॒ राजा॑ ॥२२॥\nमि॒त्र ईक्ष॑माण॒ आवृ॑त्त आन॒न्दः ॥२३॥\nयु॒ज्यमा॑नो वैश्वदे॒वो यु॒क्तः प्र॒जाप॑ति॒र्विमु॑क्तः॒ सर्व॑म्॥२४॥\nए॒तद् वै वि॒श्वरू॑पं॒ सर्व॑रूपं गोरू॒पम्॥२५॥\nउपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ॥२६॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 8,
"text": "यक्ष्मनिवारणम्।\n१-२२ भृग्वङ्गिराः। सर्वशीर्षामयाद्यपाकरणम्। अनुष्टुप्, १२ अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक्,\n१५ विराडनुष्टुप्, २१ विराट् पथ्याबृहती, २२ पथ्यापङ्क्तिः।\nशी॒र्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम्।\nसर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥१॥\nकर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्पकम्।\nसर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥२॥\nयस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः ।\nसर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥३॥\nयः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्।\nसर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥४॥\nअ॒ङ्ग॒भे॒दम॑ङ्गज्व॒रं वि॑श्वा॒ङ्ग्यंऽ वि॒सल्प॑कम्।\nसर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥५॥\nयस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्।\nत॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥६॥\nय ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के ।\nयक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥७॥\nयदि॒ कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑ ।\nहृ॒दो ब॒लास॒मङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥८॥\nह॒रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ऽप्वाम॑न्त॒रोदरा॑त्।\nय॒क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ॥९॥\nआसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त्।\nयक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥१०॥\nब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्।\nयक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥११॥\nउ॒दरा॑त् ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑ ।\nयक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥१२॥\nयाः सी॒मानं॑ विरु॒जन्ति॑ मू॒र्धानं॒ प्रत्य॑र्ष॒नीः ।\nअहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१३॥\nया हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः ।\nअहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१४॥\nयाः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः ।\nअहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१५॥\nयास्ति॒रश्ची॑रुप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते ।\nअहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१६॥\nया गुदा॑ अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च ।\nअहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१७॥\nया म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च ।\nअहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१८॥\nये अङ्गा॑नि॒ म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑ ।\nयक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥१९॥\nवि॒स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः ।\nयक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥२०॥\nपादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः ।\nअनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम्॥२१॥\nसं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः ।\nउ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशोऽङ्गभे॒दम॑शीशमः ॥२२॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 9,
"text": "आत्मा।\n१-२२ ब्रह्मा।वामः, अध्यात्मं, आदित्यः। त्रिष्टुप्, १२, १४, १६, १८ जगती।\nअ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑ ।\nतृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम्॥१॥\nस॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा ।\nत्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥२॥\nइ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः॑ ।\nस॒प्त स्वसा॑रो अ॒भि सं न॑वन्त॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नामा॑ ॥३॥\nको द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति ।\nभूम्या॒ असु॒रसृ॑गा॒त्मा क्वऽस्वित् को वि॒द्वांस॒मुप॑ गा॒त् प्रष्टु॑मे॒तत्॥४॥\nइ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः ।\nशी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापुः॑ ॥५॥\nपाकः॑ पृच्छामि॒ मन॒सावि॑जानन् दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ ।\nव॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न् वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥६॥\nअचि॑कित्वांस्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन् पृ॑च्छामि वि॒द्वनो॒ न वि॒द्वान्।\nवि यस्त॒स्तम्भ षडि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक॑म्॥७॥\nमा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे।\nसा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥८॥\nयु॒क्ता मा॒तासि॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द् गर्भो॑ वृज॒नीष्व॒न्तः ।\nअमी॑मेद् व॒त्सो अनु॒ गाम॑पश्यद् विश्वरू॒प्यंऽ त्रि॒षु योज॑नेषु ॥९॥\nति॒स्रो मा॒तॄस्त्रीन् पि॒तॄन् बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्त ।\nम॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदो॒ वाच॒मवि॑श्वविन्नाम्॥१०॥\nपञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ।\nतस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न च्छि॑द्यते॒ सना॑भिः ॥११॥\nपञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः परे॒ अर्धे॑ पुरी॒षिण॑म्।\nअथे॒मे अ॒न्य उप॑रे विचक्ष॒णे स॒प्तच॑क्रे॒ षड॑र आहु॒रर्पि॑तम्॥१२॥\nद्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ ।\nआ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥१३॥\nसने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति ।\nसूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ॥१४॥\nस्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒सः आ॑हुः॒ पश्य॑दक्ष॒ण्वान् न वि चे॑तद॒न्धः ।\nक॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात् स पि॒तुष्पि॒तास॑त्॥१५॥\nसा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद् य॒मा ऋष॑यो देव॒जा इति॑ ।\nतेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥१६॥\nअ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात्।\nसा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त् क्वऽस्वित्सूते न॒हि यू॒थे अ॒स्मिन्॥१७॥\nअ॒वः परे॑ण पि॒तरं॒ यो अ॑स्य॒ वेदा॒वः परे॑ण प॒र ए॒ना व॑रेण ।\nक॒वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद् दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तम्॥१८॥\nये अ॒र्वाञ्च॒स्ताँ उ॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः ।\nइन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥१९॥\nद्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते ।\nतयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥२०॥\nयस्मि॑न् वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ ।\nतस्य॒ यदा॒हुः पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द् यः पि॒तरं॒ न वेद॑ ॥२१॥\nयत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति ।\nए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥२२॥\n"
},
{
"veda": "atharvaveda",
"samhita": "shaunak",
"kaanda": 9,
"sukta": 10,
"text": "आत्मा।\n१-२८ ब्रह्मा। गौः, विराट् अध्यात्मम्, २३ मित्रावरुणौ। त्रिष्टुप्, १,७,१४,१७-१८ जगती,\n२१ पञ्चपदातिशक्वरी, २४ चतुष्पदा पुरस्कृतिर्भुरिगतिजगती, २, २६-२७ भुरिक्।\nयद् गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत ।\nयद् वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत् तद् वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥१॥\nगा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम्।\nवा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥२॥\nजग॑ता॒ सिन्धुं॑ दि॒व्यऽस्कभायद् रथंत॒रे सूर्यं॒ पर्य॑पश्यत्।\nगा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा॥३॥\nउप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्।\nश्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभीऽद्धो घ॒र्मस्तदु॒ षु प्र वो॑चत्॥४॥\nहि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त्।\nदु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥५॥\nगौर॑मीमेद॒भि व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ ।\nसृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥६॥\nअ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भिवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता।\nसा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न् वि॒द्युद् भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥७॥\nअ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द् ध्रु॒वं मध्य॒ आ प॒स्त्याऽनाम्।\nजी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥८॥\nवि॒धुं द॑द्रा॒णं स॑लि॒लस्य॑ पृ॒ष्ठे युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार ।\nदे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्य म॒मार॒ स ह्यः समा॑न ॥९॥\nय ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त्।\nस मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒रा वि॑वेश ॥१०॥\nअप॑श्यं गो॒पाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्।\nसस॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥११॥\nद्यौर्नः॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्नो मा॒ता पृ॑थि॒वी म॒हीयम्।\nउ॒त्ता॒नयो॑श्च॒म्वो॒३र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त्॥१२॥\nपृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ ।\nपृ॒च्छामि॒ विश्व॑स्य॒ भुव॑नस्य॒ नाभिं॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्योऽम ॥१३॥\nइ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ ।\nअ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्योऽम ॥१४॥\nन वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि ।\nय॒दा माग॑न् प्रथम॒जा ऋ॒तस्यादिद् वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥१५॥\nअपा॒ङ् प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ।\nता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य॑१न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम्॥१६॥\nस॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि ।\nते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॑ परि॑ भवन्ति वि॒श्वतः॑ ॥१७॥\nऋ॒चो अ॒क्षरे॑ पर॒मे व्योऽम॒न् यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।\nयस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत् तद् वि॒दुस्ते अ॒मी समा॑सते ॥१८॥\nऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तोऽर्ध॒र्चेन॑ चाक्लृपु॒र्विश्व॒मेज॑त्।\nत्रि॒पाद् ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥१९॥\nसू॒य॒व॒साद् भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम ।\nअ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥२०॥\nगौरिन्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।\nअ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥२१॥\nकृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति ।\nतं आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वीं व्यूऽदुः ॥२२॥\nअ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद् वां॑ मित्रावरु॒णा चि॑केत ।\nगर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्या ऋ॒तं पिप॒र्त्यनृ॑तं नि पा॑ति ॥२३॥\nवि॒राड् वाग् विरा॑ट् पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट् प्र॒जाप॑तिः ।\nवि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥२४॥\nश॒क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण ।\nउ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्॥२५॥\nत्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम्।\nविश्व॑म॒न्यो अ॑भि॒चष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम्॥२६॥\nच॒त्वारि॒ वाक् परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।\nगुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्याऽवदन्ति ॥२७॥\nइन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्।\nए॒कं सद् विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥२८॥\n"
}
]